________________
सह क्षीरनीरन्यायेन लोलीभवनात् भवान्तरगतावपि च जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्त प्रविष्टपुरुषवदनतिशयिनामप्रत्यक्षत्वाच्चेति, तथा बहिर्भवं बाह्य, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायित्वान्निरतिशयानामपि प्रायः प्रत्यक्षत्वाच्चेति, तत्राभ्यन्तरं 'कम्मए'त्ति कार्मणशरीरनामकर्मोदयनिर्वय॑मशेषकर्मणां प्ररोहभूमिराधारभूतं, तथा संसार्यात्मनां गत्यन्तरसङ्क्रमणे साधकतमं तत् कार्मणवर्गणास्वरूपं, कमैव कर्मकमिति, कर्मकग्रहणे च तैजसमपि गृहीतं द्रष्टव्यं, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति, 'एवं देवाणं भाणियव्वं ति अयमों -यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानाम्-असुरादीनां वैमानिकान्तानां भणितव्यम्, कार्मणवैक्रिययोरेव तेषां भावात् , चतुर्विंशतिदण्डकस्य च विवक्षितत्वादिति । 'पुढवी'त्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदारपुद्गलनिवृत्तमौदारिक, केवलमेकेन्द्रियाणामस्थ्यादिविरहितं, वायूनां वैक्रियं यत्तन्न विवक्षितं, प्रायिकत्वात् तस्येति ॥ 'बेईदियाण'मित्यादि, अस्थिमांसशोणितैर्बद्धं-नद्धं यत्तथा, द्वीन्द्रियादीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः । 'पंचेंदिए'त्यादि, पञ्चेन्द्रियतिर्यमनुष्याणां पुनरयं विशेषो यदस्थिमांसशोणितस्नायुशिराबद्धमिति, अस्थ्यादयस्तु प्रतीता इति ॥ प्रकारान्तरेण चतुर्विंशतिदण्डकेन शरीरप्ररूपणामेवाह-विग्गहे'त्यादि, विग्रहगतिः-वक्रगतियेदा विश्रेणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापन्ना विग्रहगतिसमापन्नास्तेषां वे शरीरे, इह तैजसकार्मणयोर्भेदेन विवक्षेति, एवं दण्डकः ॥ शरीराधिकारात् शरीरोत्पत्तिं दण्डकेन निरूपयन्नाह–'नेरइयाणमित्यादि, कण्ठ्यं, किन्तु या रागद्वेषजनितकर्मणा शरीरोत्पत्तिः सा रागद्वेषाभ्यामेवेति व्यपदिश्यते, कार्ये कारणोपचारादिति,
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org