________________
|रिणतानीति द्रव्यसूत्रं षष्ठम् । 'दुविहे 'त्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः - प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये हि | पृथिवी कायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः, द्रव्यसूत्रे गतिर्गमनमात्रमेव, शेषं तथैवेति ॥ 'दुविहा पुढवी' त्यादि षट्सूत्री, अनन्तरं - सम्प्रत्येव समये क्वचिदाकाशदेशे अवगाढा :- आश्रितास्त एवानन्तरावगाढकाः येषां तु व्यादयः समया अवगाढानां ते परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरम् - अव्यवधानेनावगाढा अनन्तरावगाढा, इतरे तु परम्परावगाढा इति ॥ अनन्तरं द्रव्यस्वरूपमुक्तम्, अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाकाशयोर्द्विसूत्र्या प्ररूपणामाह
दुविहे काले पं० तं०—ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव, दुविहे आगासे पं० तं० - लोगागासे चेव अलोगागासे चेव, (सू०७४ )
तत्र कल्यते - सङ्ख्यायतेऽसावनेन वा कलनं वा कलासमूहो वेति कालः - वर्त्तनापरापरत्वादिलक्षणः स चावसर्पिण्युत्सपिंणीरूपतया द्विविधो द्विस्थानकानुरोधादुक्तः अन्यथाऽवस्थितलक्षणो महाविदेहभोगभूमिसम्भवी तृतीयोऽप्यस्तीति ॥ 'आगासे' त्ति सर्वद्रव्य स्वभावानाकाशयति-आदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम्, आङ् मर्यादा - भिविधिवाची, तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं तेषामात्मसादकरणाद्, अभिविधौ तु सर्वभावव्यापनादाकाशमिति, तत्र लोको यत्राकाशदेशे धर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org