________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ५४ ॥
शरीरादिपर्याप्तिषु 'सिय आहारए सिय अणाहारए त्ति, शेषाः पुनरसङ्ख्यातसमया अन्तर्मुहूर्त्तेन निर्वर्त्यन्त इति, अपर्याप्तकास्तु उच्छ्वास पर्याया अपर्याप्ता एव म्रियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्यां यस्मादागामिभवायुष्कं बद्धा त्रियन्ते तच्च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तैरेव बध्यत इति । 'एव' मिति पूर्ववदेवेति । 'दुविहा पुढवी 'त्यादिषट्सूत्री, परिणताः - स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षत्रादिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना [मिश्रेण] कालेन भावतो वर्णगन्धरसस्पर्शान्यथात्वेन परिणताः क्षेत्रतस्तु 'जोयेणसयं तु गंता अणहारेण तु भंडसंकंती | वायागणिधूमेण य विद्धत्थं होइ लोणाइ ॥ १ ॥ हरियाल मणोसिल पिप्पली य खज्जूर | मुद्दिया अभया । आइन्नमणाइन्ना तेऽवि हु एमेव णायव्त्रा ॥ २ ॥ आरुहणे ओरुहणे णिसियण गोणाइणं च गाउम्हा । भूमाहारच्छेदे उवक्कमेणेव परिणामो ॥ ३ ॥” 'अणहारेणं'ति स्वदेशजाहाराभावेनेति, 'भंड संकंती 'ति भाजनाद् भा जनान्तरसङ्क्रान्त्या, खर्जूरादयोऽनाचरिताः अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनै पृथिवी कायपिण्डप्रयोजनाभिधानमिदं स्यात्, यथा - 'घट्टगडगलगलेवो एमादि पयोयणं बहुहा' इति । 'एव' मित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि । द्रवन्ति गच्छन्ति विचित्रपर्यायानिति द्रव्याणि - जीवपुद्गलरूपाणि तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि - विवक्षितपरिणामवन्त्येव, अप
१ क्षेत्रादिना प्र. २ योजनशतं तु गत्वाऽनाहारेण भाण्डसंक्रान्त्या । वृन्ताकधूमेन च विध्वस्तं भवति लवणादि ॥ १ ॥ हरितालमनःशिले पिप्पली च खजूरः मुद्रिकाऽभया । आचीर्णा अनाचीर्णास्तेऽपि एवमेव ज्ञातव्याः ॥ २॥ आरोहेऽवरोहे निषीदनं गवादीनां च गात्रोष्मा । भौमाहारव्यवच्छेदे उपक्रमेणैव परिणामः ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः १
पृथव्यादी
नां परिणातरौ
॥ ५४ ॥
www.jainelibrary.org