________________
तिनः पर्याप्ताः, ये हि चतस्रः स्वपर्याप्तीः पूरयन्तीति, अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीनं पूरयन्तीति, इह च पर्याप्तिर्नाम शक्तिः सामर्थ्यविशेष इतियावत्, सा च पुद्गलद्रव्योपचयादुपद्यते, षड्भेदा चेयं, तद्यथा-आहार १ सरीरिं २ दिय ३ पज्जत्ती आणपाण ४ भास ५ मणे ६ । चत्तारि पंच छप्पिय एगिदियविगलसन्नीणं ॥१॥"ति, तत्र एकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च संज्ञिनां षट्, तत्र आहारपर्याप्तिर्नाम खलरसपरिणमनशक्तिः १, शरीरपर्याप्तिः सप्तधातुतया रसस्य परिणमनशक्तिः २, इन्द्रियपर्याप्तिः पञ्चानामिन्द्रियाणां योग्यान पुद्गलान् गृहीत्वाऽनाभोगनिर्वर्तितेन वीर्येण तद्भावनयनशक्तिः ३, आनप्राणपर्याप्तिः उच्छ्वासनिश्वासयोग्यान पुद्गलान् गृहीत्वा तथा परिणमय्याऽऽनप्राणतया निसर्जनशक्तिः, ४ भाषापर्याप्तिर्वचोयोग्यान पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्य वाग्योगतया निसर्जनशक्तिः ५, मनःपर्याप्तिर्मनोयोग्यान पुद्गलान् गृहीत्वा मनस्तया परिणमय्य मनोयोगतया निसर्जनशक्तिरिति ६, | एताः पर्याप्तयः पर्याप्तनामकर्मोदयेन निर्वय॑न्ते, तद् येषामस्ति ते पर्याप्तकाः, अपर्याप्तनामकर्मोदयेनानिवृत्ताः येषा-3
मेताः सन्तीति तेऽपर्याप्तका इति, एताश्च युगपदारभ्यन्तेऽन्तर्मुहूर्तेन च निर्वय॑न्ते, तत्र आहारपर्याप्तेर्निवृत्तिकालः | समय एव, कथम् ?, उच्यते, यस्मात् प्रज्ञापनायामुक्तं-'आहारपज्जत्तीए अपजत्तए णं भंते! जीवे किं आहारए अ-13 णाहारए ?, गोयमा! नो आहारए अणाहारए"त्ति, स च विद्महे आहारपर्याप्त्या अपर्याप्तको लभ्यते, यदि पुनरुपपातक्षेत्रप्राप्तोऽप्याहारपर्याप्त्याऽपर्याप्तको भवेत्तदैवं व्याकरणं भवेद्-गोयमा! सिय आहारए सिय अणाहारए'त्ति, यथा
१ आहारपर्याप्त्याऽपर्याप्तो भदन्त ! जीवः किमाहारकोऽनाहारकः ? गौतम ! नो आहारकोऽनाहारकः । २ गौतम ! स्यादाहारकः स्यादनाहारकः.
OSRACASSAAAAA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org