________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ५२ ॥
यरागसंजमे दुविहे पं० तं० सयंबुद्धछउमत्थखीणकसाय० बुद्धबोहियछउमत्थ०, सयंबुद्धछ उमत्थ० दुविहे पं० तं० —पढमसमय० अपढमसमय०, अवा चरिमसमय० अचरिमसमय०, बुद्धबोहियछ मत्थखीण० दुविहे पं० तं०— पढमसमय० अपढमसमय०, अह्ह्वा चरिमसमय० अचरिमसमय०, केवलिखीणकसायवीतरागसंजमे दुविहे पं० तं सजोगिकेवलिखीणकसाय० अजोगिकेवलिखीणकसायवीयराग०, सजोगिकेवलिखीणकसाय संजमे दुविहे पं० तं० पढ मसमय० अपढमसमय०, अह्वा चरिमसमय० अचरिमसमय०, अजोगिकेवलिखीणकसाय० संजमे दुविहे पं० तं०पढमसमय ० अपढमसमय० अह्वा चरिमसमय० अचरिमसमय० ॥ ( सू० ७२ )
दुर्गतौ प्रपततो जीवान्ं रुणद्धि सुगतौ च तान् धारयतीति धर्मः श्रुतं - द्वादशाङ्गं तदेव धर्मः श्रुतधर्मः चर्यते - आसेव्यते यत् तेन वा चर्यते - गम्यते मोक्ष इति चरित्रं-मूलोत्तरगुणकलापस्तदेव धर्म्मश्चारित्रधर्म इति । 'सुयधम्मे' इत्यादि, सूत्रयन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्, सुस्थितत्वेन व्यापित्वेन च सुष्ठुक्तत्वाद्वा सूक्तं, सुप्तमित्र वा सुप्तम्, अव्याख्यानेनाप्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवं – “सिञ्चेति खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवति सुव्बाइ सिव्वइ सरए व जेणऽत्थं ॥ १ ॥ अविवरियं सुत्तपि व सुट्ठियवावित्तओ सुवृत्तं "त्ति ॥ अर्थतेऽधिगम्यतेऽर्थ्यते वा याच्यते बुभुत्सुभिरित्यर्थो - व्याख्यानमिति, आह च - "जो सुत्ताभिप्पाओ सो अत्थो अज्जए य जम्हत्ति” 'चरित्तेत्यादि,
१ पततो रक्षति सुगतौ च धत्ते इति २ सिश्वति क्षरति यस्मादर्थं तस्मात्सूत्रं निरुक्तविधिना वा । सूचयति श्रवति श्रूयते सिध्यते स्मर्यते वा येनार्थः ॥ १ ॥ अविवृतं सुप्तमिव सुस्थितत्र्यापित्वात् सूक्तमिति ३ यः सूत्राभिप्रायः सोऽर्थोऽयेते च यस्मादिति ।
Jain Education International
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः १ धर्मसंयमौ
॥ ५२ ॥
www.jainelibrary.org