SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रितं श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितं, यत्पूर्वमेव श्रुतकृतोपकारस्येदानीं पुनस्तदनपेक्षवानुप्रवर्त्तते तदवग्रहादिलक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्व तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वादौसत्तिक्यादिलक्षणमुपजायतेऽन्यद्वार श्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह च-"पुत्वं सुयपरिकम्मियमतिस्स जं संपयं सुयाईयं ।[] सुयनिस्सियमियर पुण अणिस्सियं मइचउक्कं(तं)॥१॥"ति 'सुए'त्यादि, 'अत्थोग्गहे'त्ति अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं-प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकं ज्ञानं दर्श-19 ४ नमिति यदुच्यते इत्यर्थः, स च नैश्चयिको यः स सामयिको यस्तु व्यावहारिकः शब्दोऽयमित्याद्युल्लेखवान् स आन्त-टू है मौहूर्तिक इति, अयं चेन्द्रियमनःसम्बन्धात् षोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं-तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण शब्दादित्वपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति, अथवा व्यञ्जनम्-इन्द्रियशब्दादिद्रव्यसम्बन्धः इति, आह च-"जिजइ जेणऽत्थो घडोव्वद्र दीवेण वंजणं तो तं । उवगरणिदियसद्दादिपरिणयद्दव्वसंबंधो॥ १ ॥"त्ति, अयं च मनोनयनवर्जेन्द्रियाणां भवतीति चतुर्द्धा, नयनमनसोरप्राप्तार्थपरिच्छेदकत्वात् , इतरेषां पुनरन्यथेति, ननु व्यञ्जनावग्रहो ज्ञानमेव न भवति, इन्द्रिय-15 शब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात् , बधिरादीनामिवेति, नैवं, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्भा पूर्व श्रुतपरिकर्मितमतेर्यत् साम्प्रतं श्रुतातीतम् । तनिश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ॥ १॥ २ व्यज्यते येनार्थों घट इव दीपेन व्यञ्जनं | ततस्तत् । उपकरणेन्द्रियशन्दादिपरिणतव्यसम्बन्धः ॥१॥ SASCCCCCCCCCC Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy