SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ।। ५० ।। वलज्ञानं तत्तथा व्यपदिश्यत इति । 'ओहिनाणे' इत्यादि, 'भवपच्चइए'त्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य तद्भवप्रत्ययमिति व्यपदिश्यत इति इदमेव भाष्यकारेण साक्षेपपरिहारमुक्तं, तत्राक्षेपः- “ ओही खओवसमिए भावे भणितो भवो तहोदइए । तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोन्हं ? ॥ १ ॥ " ( दोहं ) ति देवनारकयोः, अत्र परिहारः - 'सोऽवि हु खओवसमिओ किन्तु स एव उ खओवसमलाभो । तंमि सइ होइऽवस्सं भण्णइ भवपच्चओ तो सो ॥ १ ॥ " यतः - "उदैयक्खयखओवसमोवसमावि अ जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ १ ॥ त्ति, तथा तदावरणस्य क्षयोपशमे भवं क्षायोप| शमिकमिति । 'मणपज्जवे' त्यादि, ऋज्वी - सामान्यग्राहिणी मतिः ऋजुमतिः - घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला - विशेषग्राहिणी मतिर्विपुलमतिः - घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, आह च - "रिजुं सामण्णं तम्मत्तगाहिणी रिजुमती मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतितं मुणइ ॥ १ ॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मती विउला । चिंतियमणुसरइ घडं पसंगओ पज्जयसएहिं ॥ २ ॥" 'आभिणिवोहिए' इत्यादि, श्रुतं कर्म्मतापन्नं निश्रितम्-आ १ अवधिः क्षायोपशमिके भावे भणितो भवस्तथौदयिके । ततः कथं भवप्रत्ययिको वक्तुं युक्तोऽवधिर्द्वयोः ! ॥ १ ॥ २ सोऽपि क्षायोपशमिकः किन्तु स एव तु क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्यं भण्यते भवप्रत्ययिकस्ततः ॥ १ ॥ ३ उदयक्षयक्षयोपशमोपशमा यच कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं भवं च भावं च संप्राप्य ॥ १ ॥ ४ ऋजुः सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥ १ ॥ विपुलं वस्तुविशेषणमानं तद्राहिणी मतिः विपुला । चिन्तितमनुस्मरति घटं प्रसङ्गतः पर्यायशतैः ॥ २ ॥ Jain Education International For Personal & Private Use Only २ स्थानकाध्ययने उद्देशः १ प्रत्यक्षपरोक्षज्ञाने ॥ ५० ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy