________________
वर्त्तते इन्द्रियमनोनिरपेक्षत्वेन तत्प्रत्यक्षम्-अव्यवहितत्वेनार्थसाक्षात्करणदक्षमिति, आह च-"अक्खो जीवो अत्थव्वा|वणभोयणगुणण्णिओ जेण । तं पइ वट्टइ नाणं जं पच्चक्खं तमिह तिविहं ॥१॥"ति, परेभ्यः-अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य-जीवस्य यत्तत्परोक्षं निरुक्तवशादिति, आह च–'अक्खैस्स पोग्गलकया जं दविदियमणा परा तेण । तेहिंतो जं नाणं परोक्खमिह तमणुमाणं व ॥१॥"त्ति, अथवा परैरुक्षा-सम्बन्धनं जन्यजनक|भावलक्षणमस्येति परोक्षम्-इन्द्रियमनोव्यवधानेनात्मनोऽर्थप्रत्यायकमसाक्षात्कारीत्यर्थः । 'पञ्चक्खे'त्यादि, केवलम्| एकं ज्ञानं केवलज्ञानं तदन्यन्नोकेवलज्ञानम्-अवधिमनःपर्यायलक्षणमिति । 'केवले'त्यादि, 'भवत्थकेवलनाणे चेव'त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, "भवत्थे त्यादि, सह योगैः-कायव्यापारादिभिर्यः स सयोगी इन्समासान्तत्वात् स चासौ भवस्थश्च तस्य केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी-शैलेशीकरणव्यवस्थितः, शेषं तथैव, 'सयोगी'त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो-ब्यादिसमयो यस्य स तथा, शेषं तथैव, 'अथवे'त्यादि, चरमः-अन्त्यः समयो यस्य सयोग्यवस्थायाः स तथा, शेषं तथैव, 'एवं'मिति |सयोगिसूत्रवत्प्रथमाप्रथमचरमाचरमविशेषणयुक्तमयोगिसूत्रमपि वाच्यमिति, 'सिद्धे'त्यादि, अनन्तरसिद्धो यः सम्प्रति समये सिद्धः, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य ध्यादयः समयाः सिद्धस्य सोऽप्येकोऽनेको वेति, तेषां यत्के. १ अक्षो जीवोऽर्थव्यापनभोजनगुणान्वितो येन । तं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं तदिह त्रिविधम् ॥१॥ २ अक्षात् पुद्गलमयानि यव्येन्द्रियमनांसि पराणि मातेन । तेभ्यो यत् ज्ञानं परोक्षमिह तदनुमानमिव ॥१॥ ३ पोग्गलमया प्र.
RECR5RHA
dain Education International
For Personal & Private Use Only
www.jainelibrary.org