________________
AASHASA
रोधास्त्रयः २२ ज्ञानादिसम्पन्नतास्तिस्रः २५ वेदनातिसहनता-शीताद्यतिसहनं २६ मारणान्तिकातिसहनताकल्याणमित्रबुवा मारणान्तिकोपसर्गसहनमिति २७, तथा जम्बूद्वीपे न धातकीखण्डादौ अभिजिद्वजैः सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्त्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति, तथा मासो नक्षत्रचन्द्राभिवर्द्धितऋत्वादित्यमासभेदात्पञ्चविधोऽन्यत्रोक्तः, तत्र नक्षत्रमास:-चन्द्रस्य नक्षत्रमण्डलभोगकाललक्षणः सप्तविंशतिः रात्रि|न्दिवानि-अहोरात्राणि रात्रिन्दिवाणेति-अहोरात्रपरिमाणापेक्षयेदं परिमाणं नतु सर्वथा, तस्याधिकत्वाद्, आधिक्यं चाहोरात्रसप्तपष्टिभागानामेकविंशत्येति, “विमाणपुढवी"त्ति विमानानां पृथिवी-भूमिका, तथा वेदकसम्यक्त्वबन्धः-शायोपशमिकसम्यक्त्वहेतुभूतशुद्धदलिकपुञ्जरूपा दर्शनमोहनीयप्रकृतिस्तस्य 'उवरओ'त्ति प्राकृतत्वादुद्वलको-वियोजको जन्तुः तस्य मोहनीयकर्मणोऽष्टाविंशतिविधस्य मध्ये सप्तविंशतिरुत्तरप्रकृतयः सत्कर्माशाः सत्तायामित्यर्थः, एकस्योद्वलितत्वादिति, तया श्रावणमासस्य शुद्धसप्तम्यां सूर्यः सप्तविंशत्यङ्गुलिकां हस्तप्रमाणशङ्कोरिति गम्यते पौरुषी छायां निर्त्य दिवसक्षेत्रं-रविकरप्रकाशमाकाशं निवर्द्धयन्-प्रकाशहान्या हानि नयन् रजनीक्षेत्रम्-अन्धकाराक्रान्तमाकाशमभिवर्धयन्-प्रकाशहान्या वृद्धि नयन् चारं चरति-व्योममण्डले भ्रमणं करोति, अयमत्र भावार्थः-इह किल स्थूलन्यायमाश्रित्य आषाढ्यां चतुर्विंशत्यङ्गुलप्रमाणा पौरुषीच्छाया भवति, दिनसप्तके सातिरेकं छायाऽङ्गुलं वर्द्धते, ततश्च श्रावणशुद्धसप्तम्यामङ्गुलत्रयं वर्द्धते, सातिरेकैकविंशतितमदिनत्वात्तस्याः, तदेव
AGRA
Jain Educationa
l
For Personal & Private Use Only
helbrary org