________________
एकवीसं सागरोवमाइं ठिई प०, ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा. सेसि णं देवा एकवीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइया भवसिद्धिआ जीवा जे एकवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं २१॥
अथैकविंशतितमस्थानकं, तत्र चत्वारि सूत्राणि स्थितिसूत्रैर्विना सुगमानि, नवरं शबलं-कर्बुर चारित्रं यः क्रियाविशेषैर्भवति ते शबलास्तद्योगात्साधवोऽपि, ते एवं-तत्र हस्तकर्म-वेदविकारविशेष कुर्वन्नुपलक्षणत्वात्कारयन् वा शबलो भवत्येकः १ एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिः प्रकारैः२ तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्च भुजानः ३ तथा आधाकर्म ४ सागारिकः-स्थानदाता तपिण्डं ५ औद्देशिकं क्रीतमाहृत्य दीयमानं(च) भुजानः उपलक्षणत्वात्पामिचाच्छेद्यानिसृष्टग्रहणमपीह द्रष्टव्यमिति ६, यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, अभीक्ष्णं २ प्रत्याख्यायाशनादि भुञ्जानः ७ अन्तः षण्णां मासानामेकतो गणाद्गणमन्यं सङ्क्रामन् ८ अन्तर्मासस्य त्रीनुदकलेपान् कुर्वन् , उदकलेपश्च नाभिप्रमाणजलावगाहनमिति, ९, अन्तर्मासस्य त्रीणि मायास्थानानि, स्थानमिति-भेदः १०, राजपिण्डं भुजानः ११, आकुट्या प्राणातिपातं कुर्वन् , उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः १२, आकुट्टया मृषावादं वदन् १३, अदत्तादानं गृहन् १४, आकुट्टयैवानन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकं वा चेतयन् कायोत्सर्ग खाध्यायभूमि वा कुर्वन्नित्यर्थः १५ एवमाकुट्टया
Jain Educati
o
nal
For Personal & Private Use Only
nelibrary.org