SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पूर्वस्य वस्तूनि-विभागविशेषाः तानि च चतुर्दश मूलवस्तूनि, चूलावस्तूनि तु द्वादशेति, तथा 'साहस्सिओत्ति सहस्राण्येव साहस्यं, तथा 'कम्मविसोही'त्यादि, कर्मविशोधिमार्गणां प्रतीत्य-ज्ञानावरणादिकर्मविशुद्धिगवेषणामाश्रित्य चतुर्दश जीवस्थानानि-जीवभेदाः प्रज्ञप्ताः, तद्यथा-मिथ्या-विपरीता दृष्टिर्यस्यासौ मिथ्यादृष्टिः-उदितमि-13 ध्यात्वमोहनीयविशेषः, तथा 'सासायणसम्मदिहि'त्ति सहेपत्तत्त्वश्रद्धानरसाखादनेन वत्तेते इति साखादनः, घण्टालालान्यायेन प्रायःपरित्यक्तसम्यक्त्वः तदुत्तरकालं षडावलिकः, तथा चोक्तम्-"उवसमसंमत्ताओ चयओ मिच्छं अ-11 पावमाणस्स ।सासायणसंमत्तं तदंतरालंमि छावलियं ॥१॥” इति, साखादनश्चासौ सम्यगृष्टिश्चेति विग्रहः, 'सम्मामिच्छतिमित्ति सम्यक च मिथ्या च दृष्टिरस्येति सम्यगमिथ्याष्टिः-उदितदर्शनमोहनीयविशेषः, तथाऽविरतसम्यगृष्टिदेशविरतिरहितः विरताविरतो-देशविरतः श्रावक इत्यर्थः, प्रमत्तसंयतः-किञ्चित्प्रमादवान् सर्वविरतः, अप्रमत्तसंयतः-सर्वप्रमादरहितः स एव, 'नियट्टी.' इह क्षपक श्रेणिमुपशमश्रेणिं वा प्रतिपन्नो जीवः क्षीणदर्शनसप्तक उप४ शान्तदर्शनसप्तको वा निवृत्तिबादर उच्यते, तत्र निवृत्तिः-यद्गुणस्थानकं समकालप्रतिपन्नानां जीवानामध्यवसाय-| भेदः तत्प्रधानो बादरो-बादरसम्परायो निवृत्तिबादरः, 'अणियहिवायरे'त्ति अनिवृत्तिवादरः, स च कपायाष्टकक्षपणारम्भान्नपुंसकवेदोपशमनारम्भाचारभ्य बादरलोभखण्डक्षपणोपशमने यावद्भवतीति, 'सुहुमसंपराए'त्ति सूक्ष्मःसज्वलनलोभासङ्ख्येयखण्डरूपः सम्परायः-कषायो यस्य स सूक्ष्मसम्परायो-लोभानुवेदक इत्यर्थः, अयं च द्विविध SACRORSCOEACCIRCROCESCESS dain Education Internal For Personal & Private Use Only "winw.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy