SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा यांगे श्री अभय० वृत्तिः ॥ २८ ॥ Jain Education I |इत्याह-उपशमको वा–उपशम श्रेणीप्रतिपन्नः क्षपको वा - क्षपकश्रेणिप्रतिपन्न इति दशमं जीवस्थानमिति, तथा उपशान्तः - सर्वथानुदयावस्थो मोहो - मोहनीयं कर्म यस्य स उपशान्तमोहः, उपशमवीतराग इत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मुहूर्त भवति, ततः प्रच्यवत एवेति तथा क्षीणो- निःसत्ताकीभूतो मोहो यस्य स तथा, क्षयवीतराग इत्यर्थः, अयमप्यन्तर्मुहूर्त्तमेवेति, तथा सयोगी केवली - मनःप्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी के वली - निरुद्धमनःप्रभृतियोगः शैलेशीगतो हखपञ्चाक्षरोद्गिरणमात्रं कालं यावदिति चतुर्दशं जीवस्थानमिति, 'भरहे' इत्यादि, भरतैरावतयोर्जीवा, इह भरतमैरवतं चारोपितगुणकोदण्डाकारं यतस्त (तस्त) योजवे भवतः, तत्र भरतस्य हि - मवतोऽर्वागनन्तरप्रदेशश्रेणिर्जीवा ऐरावतस्य च शिखरिणः परतोऽनन्तरप्रदेश श्रेणीति भरतैरावतजीवा, 'चाउरंतचकवहिस्स' ति चत्वारोऽन्ता - विभागा यस्यां सा चतुरन्ता भूमिः तत्र भवः खामितयेति चातुरन्तः स चासौ चक्रवर्त्ती चेति विग्रहः, रत्नानि - स्वजातीयमध्ये समुत्कर्षवन्ति वस्तूनीति, यदाह - "रलं निगद्यते तज्जातौ जातौ यदुत्कृष्ट” मिति, 'गाहावइ' त्ति गृहपतिः - कोष्ठागारिकः 'पुरोहिय'त्ति पुरोहितः - शान्तिकर्मादिकारी 'वह' त्ति वर्द्धकिः - रथादिनिर्मापयिता मणिः - पृथिवीपरिणामः काकिणी - सुवर्णमयी अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषायेकेन्द्रियाणीति, श्रीकान्तमित्यादीन्यष्टौ विमाननामानीति ॥ १४ ॥ पन्नरस परमाहम्मिआ प० तं०– 'अंबे अंबरिसी चैव, सॉमे सबैलेत्ति आवरे । रुंदोवरुंदकाँले अ, महाकालेत्ति आवरे ॥ १ ॥ For Personal & Private Use Only १५ सम वायाध्य. ॥ २८ ॥ www.melibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy