________________
१४ सम
वायाध्य.
श्रीसमवा-
यांगे श्रीअभय वृत्तिः
॥२७॥
सय इति द्वितीयः, एवं बादरा बादरनामकर्मोदयात् पृथिव्यादय एव, तेऽपि पर्याप्तेतरभेदाद् द्विधा, एवं द्वीन्द्रियादयो- ऽपि, नवरं पञ्चेद्रियाः सज्ञिनो-मनःपर्याप्त्युपेता इतरे त्वसज्ञिन इति । तथा 'उप्पायपुव्वेत्यादि गाथात्रयं, तथा 'उप्पायपुव्वमग्गेणियं चत्ति यत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व, यत्र तेषामेवाग्रं-परिमा
णमाश्रित्य तदग्रेणीयं, 'तइयं च वीरियं पुर्वति यत्र जीवादीनां वीर्य प्रोच्यते-प्ररूप्यते तद्वीर्यप्रवादं 'अत्थीनत्थिप४ वाय'ति यद्यथा लोके अस्ति नास्ति च तद्यत्र तथोच्यते तदस्तिनास्तिप्रवादं 'तत्तो नाणप्पवायं च'त्ति यत्र ज्ञानं-मत्यादिकं खरूपभेदादिभिः प्रोच्यते तत् ज्ञानप्रवादमिति । 'सच्चप्पवायपुवं' ति यत्र सत्यः-संयमः सत्यं वचनं वा सभेदं सप्रतिपक्षं च प्रोच्यते तत्सत्यप्रवादपूर्व, ततः 'आयप्पवायपुत्वं चत्ति यत्रात्मा-जीवोऽनेकनयैः प्रोच्यते तदात्मप्रवादमिति, 'कम्मप्पवायपुवंति यत्र ज्ञानावरणादि कर्म प्रोच्यते तत्कर्मप्रवादमिति, 'पचक्खाणं भवे नवमं ति यत्र प्रत्याख्यानखरूपं वर्ण्यते तत्प्रत्याख्यानमिति २। 'विजाअणुप्पवायंति यत्रानेकविधा विद्यातिशया वर्ण्यन्ते तद्विद्यानुप्रवादं, 'अवंझपाणाउ बारसं पुवंति यत्र सम्यग्ज्ञानादयोऽवन्ध्याः -सफला वर्ण्यन्ते तदवन्ध्यमेकादशं, यत्र प्राणा-जीवा आयुश्चानेकधा वर्ण्यन्ते तत्प्राणायुरिति द्वादशं पूर्व, 'तत्तो किरियविसालं'ति यत्र क्रियाः-कायिक्या|दिकाः विशाला-विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालं 'पुवं तह बिंदुसारं च' त्ति लोकशब्दोऽत्र लुप्तो द्रष्टव्यः, ततश्च लोकस्य बिन्दुरिवाक्षरस्य सारं-सर्वोत्तमं यत्तल्लोकबिन्दुसारमिति ३ तथा 'चोइस वत्थूणि त्ति द्वितीय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org