________________
श्रीसमवा-
१२ समवायाध्य.
यांगे
श्रीअभय०
वृत्तिः ॥२४॥
प्रज्ञप्त, द्वादशावर्त्ततामेवास्थानुवदन् शेषांश्च तद्धर्मानभिधित्सुः रूपकमाह-'दुओणए'त्यादि, अवनतिरवनतम्-उत्त- माङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद्वयवनतं, तत्रैकं यदा प्रथममेव 'इच्छामि खमासमणो! वंदिउं जावणिजाए निसीहियाए'त्ति अभिधायावग्रहानुज्ञापनायावनमतीति, द्वितीयं पुनर्यदाऽवग्रहानुज्ञापनायैवावनमतीति, यथा जातं-श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च, तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो / जातो रचितकरपुटस्तु योन्या निर्गत एवंभूत एव वन्दते तदव्यतिरेकाद्वा यथाजातं भण्यते, कृतिकर्म-वन्दनकं 'बारसावयंति द्वादशावर्ताः-सूत्राभिधानगर्भाः कायव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तद् द्वादशावत, तथा 'चउसिरं"ति चत्वारि शिरांसि यस्मिंस्तचतुःशिरः प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, तथा 'तिगुत्तंति तिसृभिर्गुप्तिभिर्गुप्तः पाठान्तरेऽपि तिसृभिः (श्रद्धाभिः) गुप्तिभिरेवेति, तथा 'दुपयेसंति द्वौ प्रवेशौ यस्मिंस्तद् द्विप्रवेशं तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति, 'एगनिक्खमणं'ति एक निष्क्रमणमवग्रहादावश्यिक्या निर्गच्छतः, द्वितीयवेलायां बवग्रहाज निर्गच्छति, पादपतित एव सूत्रं समापयतीति, तथा 'विजयराजधानी' असङ्ख्याततमे जम्बूद्वीपे आधजम्बूद्वीपविजयाभिधानपूर्वद्वाराधिपस्य विजयाभिधानस्य पल्योपमस्थितिकस्य देवस्य सम्बन्धिनीति, तथा रामो नवमो बलदेवः 'देवत्तं गए त्ति हा देवत्वं-पञ्चमदेवलोके देवत्वं गतः, तथा सर्वजघन्या रात्रिरुत्तरायणपर्यन्ताहोरात्रस्य रात्रिः, सा च द्वादशमौहूर्तिका-1
KARRESKUS
॥२४॥
Jain Education
a
l
For Personal & Private Use Only
M
inelibrary.org