________________
प्रायश्चिन्तिनोऽपि न भवन्तीति, आह च–“संमणुन्नमसमणुन्ने अदिन्नणाभवगिण्हमाणे वा। सम्भोग वीसुकरणं [पृथ-8 करणमित्यर्थः ] इयरे य अलंभ पलंति ॥१॥" [ इतरान् पार्श्वस्थादीनित्यर्थः ] तथा 'सन्निसिज्जा यत्ति सन्निषद्या-आसनविशेषः, सा च सम्भोगासम्भोगकारणं भवति, तथाहि-संनिषद्यागत आचार्यो निषद्यागतेन सम्भोगिकाचार्येण सह श्रुतपरिवर्तनां करोति शुद्धः, अथामनोज्ञपार्श्वस्थादिसाध्वीगृहस्थैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तं, तथा निषद्यायामुपविष्टः सूत्रार्थों पृच्छति अतिचारान् वाऽsलोचयति यदि तदा तथैवेति, तथा 'कहाए य पंबंधणे'त्ति कथा-वादादिका पञ्चधा तस्याः प्रबन्धनं-प्रबन्धेन करणं कथाप्रबन्धनं, तत्र सम्भोगासम्भोगौ भवतः, तत्र मतमभ्युपगम्य पञ्चावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थन स छलजातिविरहितो भूतार्थान्वेषणपरो वादः, स एव छलजातिनिग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा, तथा प्रकीर्णकथा चतुर्थी, सा चोत्सर्गकथा द्रव्यास्तिकनयकथा वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिस्रः कथाः श्रमणीवजैः सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती, चतुर्थवेलायां चालोचयन्नपि विसम्भोगार्ह इति रूपकद्वयस्य संक्षेपार्थः विस्तरार्थस्तु निशीथपञ्चमोद्देशकभाष्यादवसेय इति, तथा 'दुवालसावत्ते किइकम्मे त्ति द्वादशावत कृतिकर्म-वन्दनकं
१ समनोज्ञामनोज्ञयोरदत्तमनाभाव्ये गृह्णति वा । संभोगविष्वकरणं इतरांश्चालाभे प्रेरयन्ति ॥१॥
Sain
duen
For Personal & Private Use Only
h
ainelibrary.org