SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्रीअभय० वृत्तिः ॥ २० ॥ Jain Education त्सप्तमी प्रतिमा भवतीति, तथा आरम्भः - पृथिव्याद्युपमर्द्दनलक्षणः परिज्ञातः - तथैव प्रत्याख्यातो येनासावारम्भपरिज्ञातः श्राद्धोऽष्टमी प्रतिमेति, इह भावना - समस्त पूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमी प्रतिमेति, तथा प्रेष्याः - आरम्भेषु व्यापारणीयाः परिज्ञाताः - तथैव प्रत्याख्याता येन स प्रेष्यपरिज्ञातः श्रावको नवमीति, भावार्थचेह पूर्वोक्तानुष्ठायिनः आरम्भं परैरप्यकारयतो नव मासान् यावन्नवमी प्रतिमेति, तथा उद्दिष्टं - तमेव श्रावकद्दिश्य कृतं भक्तम् - ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतं, इहायं भावार्थ:पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः क्षुरमुण्डितशिरसः शिखावतो वा केनापि किञ्चिद्गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्य दश मासान् यावदुत्कर्षेण एवंविधविहारस्य दशमी प्रतिमेति, तथा श्रमणो-निर्ग्रन्थस्तद्वद्य स्तदनुष्ठान करणात् स श्रमणभूतः, साधुकल्प इत्यर्थः, चकारः समुच्चयेऽपिः सम्भावने, भवति श्रावक इति प्रकृतं, हे श्रमण ! हे आयुष्मन् ! इति सुधर्मखामिना जम्बूखामिनमामत्रयतोक्तं इत्येकादशीति, इह चेयं भावना - पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्या - दिकं साधुधर्ममनुपालयतो भिक्षार्थ गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षां दत्तेति भाषमाणस्य कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणस्यैकादश मासान् यावदेकादशी प्रतिमा भवतीति, पुस्तकान्तरे त्वेवं वाचना - दंसणसावर प्रथमा कयवयकम्मे द्वितीया कयसामाइए तृतीया For Personal & Private Use Only ११ सम वायाध्य. ॥ २० ॥ www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy