________________
Jain Education In
यावच्चतुर्थी प्रतिमा भवतीति, तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वे करात्रिकप्रतिमाकारी भवति, एतदर्थं च सूत्रमधिकृतसूत्र पुस्तकेषु न दृश्यते दशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी 'रत्ती'ति रात्रौ किं ? अत आह—परीमाणं स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावो - दर्शनत्रत सामायिकाष्टम्यादियौषधोपेतस्य पर्वखेकरात्रिकप्रतिमा कारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावत्रह्मपरिमाणकृतोऽस्नानस्यात्रिभो जिनः अबद्धकच्छस्य पंञ्च मासान् यावत्पञ्चमी प्रतिमा भवतीति उक्तं च- “अड़मीच उद्दसी पडिमं ठाएगराईयं ॥ [ पश्चार्द्ध] असिणाणवियडभोई मउलियडो दिवसवं भयारी य । रत्तिं परिमाणकडो | पडिमा जेसु दियहेसु ॥ १ ॥ 'ति ॥ तथा दिवापि रात्रावपि ब्रह्मचारी 'असिणाइ' त्ति अस्नायी स्खानपरिवर्जकः, क्वचित्पठ्यते— 'अनिसाइ' त्ति न निशायामत्तीत्य निशादी' वियडभोई'त्ति विकटे प्रकटप्रकाशे दिवा न रात्रावित्यर्थः, दिवापि च। प्रकाशदेशे न भुङ्क्ते- अशनाद्यभ्यवहरतीति विकटभोजी 'मोलिकडे' त्ति अवद्धपरिधानकच्छ इत्यर्थः, षष्ठी प्र तिमेति प्रकृतं, अयमत्र भावः - प्रतिमापञ्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः पण्मासान् यावत्पष्ठ प्रतिमा भवतीति, तथा 'सचित्त' इति सचेतनाहारः परिज्ञातः- तत्खरूपादिपरिज्ञानात्प्रत्याख्यातो येन स सचित्ताहारपरिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतं इयमत्र भावना पूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्य प्रासुकाहारस्य सप्त मासान् याव१ अष्टमीचतुर्दश्योः प्रतिमां करोत्येकरात्रिकीं । अम्नानो दिवसभोजी मुत्कलकच्छः दिवा ब्रह्मचारी च रात्रौ कृतपरिमाणः प्रतिमावर्जेषु दिवसेषु ॥ १ ॥
For Personal & Private Use Only
nelibrary.org