________________
यांगे
श्रीसमवा- अथैकादशस्थानं, तदपि गतार्थ, नवरमिह प्रतिमाद्यर्थानि सूत्राणि सप्त स्थित्याद्यर्थानि तु नवेति, तत्रोपासन्ते-से- ११ सम
से वन्ते श्रमणान् ये ते उपासकाः-श्रावकास्तेषां प्रतिमाः-प्रतिज्ञाः अभिग्रहरूपाः उपासकप्रतिमाः, तत्र दर्शन-सम्यक्त्वं वायाध्य. श्रीअभय० तत्प्रतिपन्नः श्रावको दर्शनश्रावकः, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचारात्प्रतिमावतो वृत्तिः
निर्देशः कृतः, एवमुत्तरपदेष्वपि, अयमत्र भावार्थः-सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्थाणुव्रतादिगुणविकलस्य ॥१९॥ योऽभ्युपगमः सा प्रतिमा प्रथमेति, तथा कृतम्-अनुष्ठितं व्रतानाम्-अनुव्रतादीनां कर्म-तच्छ्रवणज्ञानवाच्छाप्रतिपत्ति-18
लक्षणं येन प्रतिपन्नदर्शनेन स कृतव्रतकर्मा प्रतिपन्नाणुव्रतादिरिति भाव इतीयं द्वितीया, तथा सामायिक-सावद्ययोगपरिवर्जननिरवद्ययोगासेवनखभावं कृतं-विहितं देशतो येन स सामायिककृतः, आहिताम्यादिदर्शनात् तान्तस्योत्तरपदत्वं, तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं मासत्रयं यावदिति तृतीया प्रतिमेति, तथा पोष-पुष्टिं कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत्पौषधं तेनोपवसनम्
अवस्थानमहोरात्रं यावदिति पौषधोपवास इति, अथवा पौषधं-पर्वदिनमष्टम्यादि तत्रोपवासः-अभक्तार्थः पौषधोप|वास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र पौषधोप-15॥१९॥
वासे निरतः-आसक्तः पौषधोपवासनिरतः(यः) सः, एवंविधस्य श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः, अयमत्र भावःहै पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान्
RECASSOCCASSAGE
dain Education Internationa
For Personal & Private Use Only
www.jainelibrary.org