________________
पोसहोववासनिरए चतुर्थी राइभत्तपरिण्णाए पञ्चमी सचित्तपरिणाए षष्ठी दिया बंभयारी राओ परिमाणकडे सप्तमी दियावि राओवि बंभयारी असिणाणए यावि भवति वोसहकेसरोमनहे अष्टमी आरंभपरिणाए पेसणपरिण्णाए नवमी उदिट्ठभत्तवजए दशमी समणभूए यावि भवइत्ति समणाउसो एकादशीति, क्वचित्तु आरम्भपरिज्ञात इति नवमी प्रेष्यारम्भपरिज्ञात इति दशमी उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति, तथा जम्बूद्वीपे २ मन्दरस्य पर्वत|स्सैकादश 'एगवीस'त्ति एकविंशतियोजनाधिकानि वोजनशतानि 'अबाहाए' अबाधया व्यवधानेन कृत्वेति शेषः ज्योतिष-ज्योतिश्चक्रं चार-परिभ्रमणं चरति-आचरति, तथा लोकान्तात् णमित्यलङ्कारे एकादश शतानि 'एकारे'त्ति एकादशयोजनाधिकानि अबाधया-बाधारहितया कृत्वेति शेषः 'जोतिसंतेति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति,
इदं च वाचनान्तरं व्याख्यातं, उक्तं च-“एकारसेक्कवीसा सय एकाराहिया य एक्कारा । मेरुअलोगाबाहं जोइसचकं ४ है चरइ ठाइ ॥१॥” इति, अधिकृतवाचनायां पुनरिदमनन्तरं व्याख्यातमालापकद्वयं व्यत्ययेनाऽपि दृश्यते, 'विमाणसयं|
भवतित्तिमक्खायंति इह मकारस्थागमिकत्वादयमों-विमानशतं भवतीतिकृत्वा आख्यातं-प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सुधर्मखामिवचनं, तथा 'मंदरे णं पव्वए धरणितलाओ सिहरतले एकारसभागपरिहीणे उच्चतेणं पण्णत्ते' अस्थायमर्थः-मेरुभूतलादारभ्य शिखरतलमुपरिभागं यावद्विष्कम्भापेक्षयाऽङ्गुलादेरेकादशभागेनैकादशभागेन परिहीणो-हानिमुपगतः उच्चत्वेन-उपर्युपरि प्रज्ञप्तः, इयमत्र भावना-मन्दरो भूतले दश योजनसहस्राणि विष्क
Jain Education
a
l
For Personal & Private Use Only
DIlainelibrary.org