________________
दर्शनं तद्वा कल्याणप्राप्तिसूचकमसमुत्पन्नपूर्व समुत्पद्यते, तद् यथा भगवतो महावीरस्यास्थिकग्रामे शूलपाणियक्षकृतोपहै सर्गावसाने, किं प्रयोजनं चेदं ? इत्याह-'अहातचं सुमिणं पासित्तए'त्ति यथा-येन प्रकारेण तथ्यः-सत्यो यथा
तथ्यः सर्वथा निर्व्यभिचार इत्यर्थः तं खप्नं-स्वप्नफलमुपचारात्तं द्रष्टुं-ज्ञातुम्, अवश्यंभाविनो मुक्त्यादेः शुभखप्नफलस्य दर्शनाय साधोः खप्नदर्शनमुपजायत इति भावः, क्वचित् 'सुजाणंति पाठः, तत्रावितथमवश्यंभावि सुयानं-सुगति द्रष्टुं-ज्ञातुं सुज्ञानं वा भाविशुभार्थपरिच्छेदं संवेदितुमिति, कल्याणसूचकावितथखप्नदर्शनाच भवति चित्तसमाधिरिति चित्तसमाधिस्थानमिदं द्वितीयं, तथा सज्ञानं सज्ञा सा च यद्यपि हेतुवाददृष्टिवाददीर्घकालिकोपदेशभेदेन । क्रमेण विकलेन्द्रियसम्यग्दृष्टिसमनस्कसम्बन्धित्वात्रिधा भवति तथापीह दीर्घकालिकोपदेशसज्ञा ग्राह्येति,सा यस्यास्ति
स सञ्जी-समनस्कस्तस्य ज्ञानं सजिज्ञानं, तचेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा 'से' तस्यासमुत्पन्न+ पूर्व समुत्पद्येत, कस्मै प्रयोजनाय ? इत्याह–'पुव्वभवे सुमरित्तए'त्ति पूर्वभवान् स्मर्तुं, स्मृतपूर्वभवस्य च संवेगात्सPमाधिरुत्पद्यते इति समाधिस्थानमेतत् तृतीयमिति, तथा देवदर्शनं वा 'से' तस्यासमुत्पन्नपूर्व समुत्पद्यते, देवा हि ।
तस्य गुणित्वाद्दर्शनं ददति, किं फलं ? इत्याह-दिव्यां देवद्धि-प्रधानपरिवारादिरूपां दिव्यां देवद्युति-विशिष्टां । शरीराभरणादिदीप्तिं दिव्यं देवानुभावं-उत्तमवैक्रियकरणादिप्रभावं द्रष्टम्, एतद्दर्शनायेत्यर्थः, देवदर्शनाचागमार्थेषु श्रद्धानदाय धर्मे बहुमानश्च भवतीति ततश्चित्तसमाधिरिति देवदर्शनं चित्तसमाधिस्थानमिति चतुर्थ, तथा अवधिज्ञानं
A LCARRORIGANGASCIENCE
HG HANGAAAAAA****
Jain Education
For Personal & Private Use Only
Planelibrary.org