SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्रीअभय० वृत्तिः ॥ १८ ॥ वा ' से' तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थ इत्याह- अवधिना - मर्यादया नियतद्रव्यक्षेत्रकालभावरूपेण लोकं ज्ञातुं लोकज्ञानायेत्यर्थः, भवति च विशिष्टज्ञानाच्चित्तसमाधिरिति पञ्चमं तदिति, एवमवधिदर्शनसूत्रमपीति षष्ठं, तथा मनः पर्यवज्ञानं वा 'से' तस्यासमुत्पन्नपूर्व समुत्पद्येत, किमर्थं अत आह— 'मणोगते भावे जाणित्तए' अर्द्धतृतीयद्वीपसमुद्रेषु सञ्ज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञातुम्, एतद्ज्ञानायेत्यर्थ इति सप्तमं, तथा केवलज्ञानं वा 'से' तस्यासमुत्पन्नपूर्व समुत्पद्येत, केवलः - परिपूर्णः लोक्यते - दृश्यते केवलालो केनेति लोको - लोकालोकखरूपं वस्तु तद् ज्ञातुं केवलज्ञानस्य च समाधिभेदत्वा [चित्तसमाधिभेदत्वा ] चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमवसेयमित्यष्टमं, एवं केवलदर्शनसूत्रं नवरं द्रष्टुमिति विशेष इति नवमं, तथा केवलिमरणं वा म्रियेत-कुर्यात् इत्यर्थः, किमर्थ अत आह— 'सर्वदुःखप्रहाणाये 'ति, इदं तु केवलिमरणं सर्वोत्तमसमाधिस्थानमेवेति दशममिति, तथा अकर्मभूमिकानां - भोगभूमिजन्मनां मनुष्याणां दशविधा 'रुक्ख'त्ति कल्पवृक्षाः 'उपभोगत्ताए'त्ति उपभोग्यत्वाय 'उवत्थिय'त्ति उपस्थिता - उपनता इत्यर्थः, तत्र मत्ताङ्गकाः मद्यकारणभूताः 'भिंग'त्ति भाजनदायिनः 'तुडियंग' ति तूर्याङ्गसम्पादकाः 'दीव'त्ति दीपशिखा : - प्रदीपकार्यकारिणः 'जोइ'त्ति ज्योतिः - अग्निस्तत्कार्यकारिण इति 'चित्तंगत्ति चित्राङ्गाः पुष्पदायिनः चित्ररसा - भोजनदायिनः मण्यङ्गाः - आभरणदायिनः गेहाकाराः - भवनत्वेनोपकारिणः 'अणिगिण 'त्ति अनग्नत्वं - सवस्त्रत्वं तद्धेतुत्वादनना इति, घोषादीन्येकादश विमाननामानीति ॥ १० ॥ Jain Education International For Personal & Private Use Only दशमः समवायः ॥ १८ ॥ www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy