________________
SAARCLASANGAMRECORCLES
उपासयिता भवतीति तृतीया ३ नो स्त्रीणामिन्द्रियाणि-नयननाशावंशादीनि मनोहराणि आक्षेपकरत्वात् मनोर माणि रम्यतयाऽऽलोकयिता-द्रष्टा निाता-तदेकाग्रचित्ततया द्रष्टैव भवतीति चतुर्थी ४ नो प्रणीतरसभोजीगलत्स्नेहरसबिन्दुकस्य भोजनस्य भोजको भवतीति पञ्चमी ५ नो पानभोजनस्यातिमात्रम्-अतिप्रमाणं यथा भवत्येव
रकः सदा भवतीति षष्ठी ६ नो पूर्वरतं-पूर्वक्रीडितमनुस्मा भवति रतं-मैथुनं क्रीडितं-स्त्रीभिः सह तदन्या क्रीडेति सप्तमी, ७ नो शब्दानुपाती नो रूपानुपाती नो गन्धानुपाती नो रसानुपाती नो स्पर्शानुपाती नो श्लोकानुपाती कामोद्दीपकान् शब्दादीनात्मनो वर्णवादं च नानुपतति-नानुसरतीत्यर्थः इत्यष्टमी ८ नो सातसौख्यप्रतिबद्धचापि भवति सातात्-सातवेदनीयादुदयप्राप्ताद्यत्सौख्यं तत्तथा, अनेन च प्रशमसुखस्य व्युदास इति नवमी ९, इदं। च व्याख्यानं वाचनाद्वयानुसारेण कृतं, प्रत्येकवाचनयोरेवंविधसूत्रभावादिति, तथा कुशलानुष्ठानं ब्रह्मचर्य तत्प्रतिपादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति, तथा अभिजिनक्षत्रं साधिकानव मुहूतीश्चन्द्रेण सार्द्ध योग-सम्बन्धं योजयति-करोति, सातिरेकत्वं च तेषां चतुर्विशत्या मुहूर्तस्य द्विषष्टिभागानां षट्षष्टया च द्विषष्टिभागस्य सप्तपष्टिभागानामिति, तथा अभिजिदादीनि नव नक्षत्राणि चन्द्रस्योत्तरेण योगं योजयन्ति, उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः। 'बहुसमरमणिजाओ' इति अत्यन्तसमोबहुसमोऽत एव रमणीयो-रम्यस्तस्माद्भूमिभागान्न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, रुचकापे
SACCHOLOGANGACANCRECORROCES
Jain Education
For Personal & Private Use Only
Enelibrary.org