SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 9AROSADCASEACHECCANCESCRey योगादुज्ज्वलः शुक्लत्वात् खच्छतया वा शुक्लान्तः कान्तियोगात् पाठान्तरे सुकृतः-सुपरिकर्मितत्वात् विमलो मलवर्जितत्वात् गोथुभत्ति-कौस्तुभाभिधानो यो मणिविशेषस्तं तिरीडंति-किरीटं च मुकुट धारयन्ति ये ते तथा, कुण्डलोद्योतिताननाः पुण्डरीकवन्नयने येषां ते तथा, एकावली-आभरणविशेषः सा कण्ठे ग्रीवायां लगिता-अवल|म्बिता सती वक्षसि-उरसि वर्तते येषां ते एकावलीकण्ठलगितवक्षसः, श्रीवत्साभिधानं सुष्टु लाञ्छनं महापुरुषत्वसूचकं वक्षसि येषां ते श्रीवत्सलाञ्छनाः, वरयशसः सर्वत्र विख्यातत्वात् सर्वर्तुकानि-सर्वऋतुसंभवानि सुरभीणि-सुगन्धीनि यानि कुसुमानि तैः सुरचिता-कृता या प्रलम्बा-आप्रदीपना सोभंतत्ति-शोभमाना कान्ता-कमनीया विकसन्ती-फुल्लन्ती चित्रा-पञ्चवर्णा वरा-प्रधाना माला-स्रक रचिता-निहिता रतिदा वा-सुखकारिका वक्षसि येषां ते सर्वतुकसुरभिकुसुमरचितप्रलम्बशोभमानकान्तविकसचित्रवरमालारचितवक्षसः, तथा अष्टशतसंख्यानि विभक्तानिविविक्तरूपाणि यानि लक्षणानि-चक्रादीनि तैः प्रशस्तानि-मङ्गल्यानि सुन्दराणि च-मनोहराणि विरचितानि-विहितानि 'अंगमंग'त्ति अङ्गोपाङ्गानि शिरोऽङ्गुल्यादीनि येषां ते अष्टशतविभक्तलक्षणप्रशस्तसुन्दरविरचिताङ्गोपाङ्गाः, तथा मत्तगजवरेन्द्रस्य यो ललितो-मनोहरो विक्रमः-संचरणं तद्वद्विलासिता संजातविलासा गतिः-गमनं येषां ते महै त्तगजवरेन्द्रललितविक्रमविलासितगतयः, तथा शरदि भवः शारदः स चासौ नवं स्तनितं-रसितं यस्मिन्निर्घोषे स नव-|| स्तनितः स चेति समासः स चासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषः-पक्षिविशेषनिनादस्तद्वद् दुन्दुभिखरो-वर्च JainEducation For Personal & Private Use Only albrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy