SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा यांगे श्रीअभय वृत्तिः ॥१५७॥ १५९ जिनचक्रिवासुदेवादि ततः पदद्वयस्य कर्मधारयः, प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते, तथा तालस्तलो वा वृक्षविशेषो ध्वजो येषां ते तालध्वजाः बलदेवा उद्विद्धः-उच्छ्रितो गरुडलक्षितः केतुः-ध्वजो येषां ते उद्विद्धगरुडकेतवो वासुदेवाः तालध्वजाश्च उद्विद्धगरुडकेतवश्च तालध्वजोद्विद्धगरुडकेतवः महाधनुर्विकर्षकाः महाप्राणत्वात् महासत्त्वलक्षणजलस्य सागरा इव सागरा आश्रयत्वान्महासत्त्वसागराः दुर्द्धरा रणाङ्गणे तेषां प्रहरतां केनापि धन्विना धारयितुमशक्यत्वात्, धनुर्धराः-कोदण्डप्रहरणाः, धीरष्वेवैतेषु च ते पुरुषाः-पुरुषकारवन्तो न कातरेष्विति धीरपुरुषाः, युद्धजनिता या कीर्तिस्तत्प्रधानाः पुरुषा युद्धकीर्तिपुरुषाः, विपुलकुलसमुद्भवा इति प्रतीतं, महारत्नं-वजं तस्य महाप्राणतया विघटका-अङ्गुष्ठतर्जनीभ्यां चूर्णका महारत्नविघटकाः, वज्रं हि अधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोट्यते न च भिद्यते तावेव भिनत्तीति, दुर्भेदं तदिति, अथवा महती या रचना सागरशकटव्यूहादिना प्रकारेण सिसामयिषोर्महासैन्यस्य रणरङ्गरसिकतया महाबलतया च विघटयन्ति–वियोजयन्ति ये ते महारचनाविघटकाः, पाठान्तरेण तु महारणविघटकाः, अर्द्धभरतखामिनः सौम्या नीरुजा राजकुलवंशतिलकाः अजिताः अजितरथाः, 'हलमुशलकणकपाणयः' तत्र हलमुशले प्रतीते ते प्रहरणतया पाणी-हस्ते येषां ते तथा बलदेवाः येषां तु कणका-बाणाः पाणी ते शाङ्गधन्वानो वासुदेवाः, शंखश्च पाञ्चजन्याभिधानः चक्रं तु सुदर्शननामकं गदा च कौमोदकीसंज्ञा लकुटविशेषः शक्तिश्च त्रिशूलविशेषो नन्दकश्च नन्दकाभिधानः खड्गस्तान् धारयन्तीति शंखचक्रगदाशक्तिनन्दकधराः वासुदेवाः, प्रवरो वरप्रभाव ॥१५७॥ Jain Education For Personal & Private Use Only nelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy