SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २७ सम० Jain Education | हकत्वात् अमत्सराः परगुणलवस्यापि ग्राहकत्वात् अचपला मनोवाक्कायस्थैर्यात् अचण्डा निष्कारणप्रबलकोपरहितत्वात् मिते- परिमिते मञ्जुले - कोमले प्रलापश्च - आलापो हसितं च येषां ते मितमञ्जलप्रलापहसिताः गम्भीरं - अद|र्शितरोषतोपशोकादिविकारं मेघनादवद्वा मधुरं श्रवणसुखकरं प्रतिपूर्णम्-अर्थप्रतीतिजनकं सत्यम् - अवितथं वचनं वाक्यं येषा ते तथा, ततः पदद्वयस्य कर्म्मधारयः, अभ्युपगतवत्सलास्तत्समर्थनशीलत्वात् शरण्यास्त्राणकरणे साधुत्वात् लक्षणानि - मानादीनि वज्रखस्तिक चक्रादीनि वा व्यञ्जनानि - तिलकैमषादीनि तेषां गुणा-महर्द्धिप्रात्यादयस्तैरुपेताः शकन्ध्यादिदर्शनादुपपेता - युक्ता लक्षणव्यञ्जनगुणोपपेताः, मानमुदकद्रोणपरिमाणशरीरता, कथं ?, उदकपूर्णायां द्रोण्या निविष्टे पुरुषे यज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्यात् तदा स पुरुषो मानप्राप्त इत्यभिधीयते, उन्मानं अर्द्धभारपरिमाणता, कथं ?, तुलारोपितस्य पुरुषस्य यद्यर्द्धभारस्तौल्यं भवति तदाऽसावुन्मानप्राप्त उच्यते, प्रमाणमष्टोतरशतमङ्गुलानामुच्छ्रयः, मानोन्मानप्रमाणैः प्रतिपूर्ण – अन्यूनं सुजातमागर्भाधानात् पालनविधिना सर्वाङ्गसुन्दरं -निखिलावयवप्रधानं अङ्गं शरीरं येषां ते तथा, शशिवत् सौम्याकार मरौद्रमबीभत्सं वा कान्तं-दीसं प्रियं जनानां प्रमो दोत्पादकं दर्शनं रूपं येषां ते तथा, 'अमरिसण'त्ति अमसृणाः - प्रयोजनेष्वनलसाः अमर्षणा वा अपराधेष्वपि कृतक्षमाः प्रकाण्ड - उत्कटो दण्डप्रकार आज्ञाविशेषो नीतिभेदविशेषो वा येषा ते तथा, अथवा प्रचण्डो- दुःसाध्यसाधकत्वाद्दण्डप्रचारः - सैन्यविचरणं येषां ते तथा, गम्भीरा - अलक्ष्यमाणान्तर्वृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, For Personal & Private Use Only inelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy