________________
श्रीसमवा
यांगे
|१५९ जिनचक्रिवा|सुदेवादि
श्रीअभय
वृत्तिः
॥१५६॥
यलक्षणाः समुदाया दशारमण्डलानि अत एव 'दो दोरामकेसव'त्ति वक्ष्यति, दशारमण्डलाव्यतिरिक्तत्वाच बलदेववासुदेवानां दशारमण्डलानीति पूर्वमुद्दिश्यापि दशारमण्डलव्यक्तिभूतानां तेषा विशेषणार्थमाह-'तद्यथे'त्यादि. तद्यथेति बलदेववासुदेवखरूपोपन्यासारम्भार्थः, केचित्तु 'दशारमण्डणाईति, तत्र दशाराणां-वासुदेवकुलीनप्रजानां मण्डनाःशोभाकारिणो दशारमण्डना उत्तमपुरुषा इति, तीर्थकरादीनां चतुष्पञ्चाशत उत्तमपुरुषाणा मध्यमवर्त्तित्वात् मध्यमपुरुषाः, तीर्थकरचक्रिणां प्रतिवासुदेवादीनां च बलाद्यपेक्षया मध्यवर्तित्वात्, प्रधानपुरुषास्तत्कालिकपुरुषाणां शौयादिभिः प्रधानत्वात् , ओजखिनो मानसबलोपेतत्वात् , तेजखिनो दीप्तशरीरत्वात् , वर्चखिनः शारीरबलोपेतत्वात्, यशखिनः पराक्रमं प्राप्य प्रसिद्धिप्राप्तत्वात्, 'छायंसित्ति प्राकृतत्वात् छायावन्तः शोभमानशरीरा अत एव कान्ताः कान्तियोगात् सौम्या अरौद्राकारत्वात् सुभगा जनवल्लभत्वात् प्रियदर्शनाः चक्षुष्यरूपत्वात् सुरूपाः समचतुरस्रसंस्थानत्वात् शुभं सुखं वा सुखकरत्वाच्छीलं-खभावो येषां ते शुभशीलाः सुखशीला वा सुखेनाभिगम्यते-सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः सर्वजनगम्याः सर्वजननयनानां कान्ता-अभिलाष्या ये ते तथा, ततः पदत्रयस्य कर्मधारयः, ओघबलाः-प्रवाहबलाः अव्यवच्छिन्नबलत्वात् अतिबलाः शेषपुरुषबलानामतिक्रमात् महाबलाः-प्रश- स्तबलाः अनिहता-निरुपक्रमायुष्कत्वादुरोयुद्धे वा भूम्यामपातित्वात् अपराजितास्तैरेव शत्रूणां पराजितत्वात् , एतदेवाह-शत्रुमर्दनास्तच्छरीरतत्सैन्यकदर्थनाद् रिपुसहस्रमानमथनास्तद्वान्छितकार्यविघटनात् सानुक्रोशाः प्रणतेष्वद्रो
En
JainEducation international
For Personal & Private Use Only
www.anelibrary.org