________________
Jain Education
सणंकुमारमाहिंदेसु अत्थेगइयाणं देवाणं छ सागरोवमाई ठिई प०, जे देवा सयंभुं सयंभूरमणं घोसं सुघोरं महाघोसं किट्टि - घोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतं वीरवण्णं वीरलेसं वीरज्झयं विरसिंगं वीरसिहं वीरकूडं वीरुत्तरवर्डिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं छ सागरोवमाई ठिई प०, ते णं देवा छहं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं छहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जाव सङ्घदुक्खाणमंतं करिस्सति ॥ सूत्रं ६ ॥
पदस्थानकमथ, तच्च सुबोधं, नवरमिह लेश्या १ जीवनिकाय २ बाह्या ३ऽऽभ्यन्तरतपः ४ समुद्घाता ५ऽवग्रहार्थानि सूत्राणि षट्, नक्षत्रार्थे द्वे, स्थित्यर्थानि षट्, उच्छासाद्यर्थं त्रयमेवेति तत्र लेश्यानां खरूपमिदं - ' कृष्णादि - द्रव्यसाचिव्यात, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १ ॥' इति, तथा बाह्यतपःबाह्यशरीरस्य परिशोषणेन कर्मक्षपणहेतुत्वादिति, आभ्यन्तरं - चित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वादिति, तथा छद्मस्थः- अकेवली तत्र भवा छाद्मस्थिकाः तत्र सम् - एकीभावेनोत् - प्राबल्येन च घातानि - निर्जरणानि समुद्घाताः वेदनादिपरिणतो हि जीवो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः संश्लिष्टान् शातयतीत्यर्थः, ते चेह वेदनादिभेदेन षडुक्ताः, तत्र वेदनासमुद्घातोऽसद्वेद्य कर्माश्रयः कषायसमुद्घातः कषायाख्यचारित्रमोहनीय कर्माश्रयः मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयो वैकु
For Personal & Private Use Only
ainelibrary.org