SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 'नेरहया णं भंते!' इत्यादि सुगम, नवरं स्थितिः-नारकादिपर्यायेण जीवानामवस्थानकालः 'अपजत्तयाणं ति Pनारकाः किल लब्धितः पर्याप्सका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहर्च यावदपर्याप्तका एव भवन्ति ततः पर्याप्तकाः, ततस्तेषामपर्याप्तकत्वेन स्थितिर्जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तमेव, पर्याप्तकानां पुनरौधिक्येव जघ-3 न्योत्कृष्टा चान्तर्महोना भवतीति, अयं चेह पर्याप्तकापर्याप्तकविभाग:-'नारयदेवा तिरिमणुयगब्भया जे असंखवासाऊ । एते उ अपजत्ता उववाए चेव बोद्धव्वा ॥१॥ सेसा य तिरियमणुया लद्धिं पप्पोववायकाले य । दुहओविय भइयचा पजत्तियरे य जिणवयणं ॥२॥'ति, उक्ता सामान्यतो नारकाणां स्थितिर्विशेषतस्तामभिधातुमिदमाह'इमीसे णमित्यादि, स्थितिप्रकरणं च सर्व प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह-'एव'मिति यथा प्रज्ञापनायां सामान्यपर्याप्तकापर्याप्तकलक्षणेनगमत्रयेण नारकाणांनारकविशेषाणांतिर्यगादिकानां च स्थितिरुक्ता एवमिहापि वाच्या, किय यावदित्याह-'जाव विजये'त्यादि, अनुत्तरसुराणामोघिकापर्याप्तकपर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह चैवमतिदिष्टसूत्राण्यर्थतो वाच्यानि रत्नप्रभानारकाणां भदन्त ! कियती स्थितिः?, गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं १, अपर्याप्तकरत्नप्रभापृथिवीनारकाणां भदन्त ! कियन्तं कालं स्थितिःप्रज्ञप्ता ?, गौतम ! उभयथापि अन्तमुहूर्तमेव, पर्याप्तकानां तु सामान्योक्तैवान्तर्मुहूर्तोना वाच्या, एवं शेषपृथ्वीनारकाणां प्रत्येकं दशानामसुरादीनां पृथिवीकायिकानां तिरश्चां गर्भजेतरभेदानां मनुष्याणां व्यन्तराणामष्टविधानां ज्योतिष्काणां पञ्चप्रकाराणां सौधर्मादीनां SUUR PAPRICCA Jain Education a l For Personal & Private Use Only WInelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy