________________
हैदर्शनीयाः अभिरूपाः प्रतिरूपा इति पूर्ववत् । 'केवइए'त्यादि, रत्नप्रभायाः पृथिव्या 'बहुसमरमणिज्जाओ भूमिमागाओ'त्ति बहुसमरमणीयस्य भूमिभागस्य ऊर्द्ध-उपरि तथा चन्द्रमसः-सूर्यग्रहगणनक्षत्रतारारूपाणि णमित्यलङ्कारे किं?चीइवइत्त'त्ति व्यतिव्रज्य-व्यतिक्रम्येत्यर्थः, तारारूपाणि चेह तारका एवेति, तथा 'बहूनी'त्यादि, किमित्याहऊर्द्धम्-उपरि दूरमत्यर्थ व्यतिबज्य चतुरशीतिविमानलक्षाणि भवन्तीति सम्बन्धः, 'इतिमक्खाय'त्ति इति-एवंप्रकारा अथवा यतो भवन्ति तत आख्याताः सर्ववेदिनेति, 'ते णं'ति तानि विमानानि णमिति वाक्यालङ्कारे 'अच्चिमालि-3 प्पभ'त्ति अर्चिालि:-आदित्यस्तद्वत्प्रभान्ति-शोभन्ते यानि तान्यर्चिालिप्रभाणि, तथा भासाना-प्रकाशानां राशि:भासराशिः-आदित्यस्तस्य वर्णस्तद्वदाभा-छायावर्णो येषां केषांचित्तानि भासराशिवर्णाभानि, तथा अरय'त्ति अरजांसि खाभाविकरजोरहितत्वात् 'नीरय'त्ति नीरजांसि आगन्तुकरजोविरहात् 'निम्मल'त्ति निर्मलानि कक्खड(कर्कश)मलाभावात् 'वितिमिर'त्ति वितिमिराणि आहार्यान्धकाररहितत्वात् विशुद्धानि स्वाभाविकतमोविरहात् सकलदोषविरामाद्वा सर्वरत्नमयानि न दार्यादिदलमयानीत्यर्थः, अच्छान्याकाशस्फटिकवत् श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात् घृष्टानीव घृष्टानि 8 खरशाणया पाषाणप्रतिमेव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेवेति निष्पङ्का निकलङ्कविकलत्वात् कमविशेषरहितत्वाद्वा निष्कङ्कटा-निष्कवचा निरावरणा निरुपघातेत्यर्थः छाया-दीप्तिर्येषां तानि निष्कण्टकच्छायानि सप्रभा
CARLOCASESSMANGALOCALCOME
Jain Education
For Personal & Private Use Only
arlhinelibrary.org