________________
अपि, पञ्चेन्द्रियाश्चतुर्द्धा नारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथ्वीभेदात् पञ्चेन्द्रियतिर्यञ्चस्त्रिधाजलस्थलखचरभेदात्, तत्र जलचराः पञ्चविधा मत्स्यकच्छपग्राहमकरसुंसुमारभेदात् पुनर्मत्स्या अनेकधा - लक्ष्णमत्स्यादिभेदात्, कच्छपा द्विधा अस्थिकच्छपमांसकच्छपभेदात्, ग्राहाः पञ्चधा दिलिवेष्टकमगुपुलक सीमाकारभेदात् मकरा - मत्स्यविशेषा द्विविधाः - शुण्डामकरा करिमकराश्च, सुंसुमारास्त्वेकविधाः, स्थलचरा द्विधा - चतुष्पदपरिसर्पभेदात्, तत्र चतुष्पदाश्चतुर्द्धा - एकखुरद्विखुरगण्डी पदसनखपदभेदात् क्रमेण चैते अश्वगोहस्तिसिंहादयः, परिसर्पा द्विधा - उरः परिसर्प भुजपरिसर्पभेदात्, उरः परिसर्पाश्चतुर्द्धा - अहिअजगराशालिकमहोरगभेदात्, तत्राहयो द्विधा - दर्वीकरा मुकुलिनश्चेति, खचराश्चतुर्द्धा - चर्मपक्षिणो लोमपक्षिणः समुद्गपक्षिणो विततपक्षिणश्च तत्राद्यौ द्वौ वल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेव स्तः, सर्वे च पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च द्विधा सम्मूर्च्छिमा गर्भव्युत्क्रान्तिकाश्च तत्र संमूच्छिमाः नपुंसका एव, इतरे तु त्रिलिङ्गा इति, गर्भव्युत्क्रान्तिकमनुष्यास्त्रिधा - कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेति, कर्म्मभूमिजा द्विविधाः - आर्या म्लेच्छाथ, आर्या द्वेधा-ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अर्हदादयः, द्वितीया नवविधाः - क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शन चारित्रभेदात्, देवाश्चतुर्विधाः भवनवास्यादिभेदाद्भवनपतयो दशधा असुरनागादयः व्यन्तरा अष्टविधा पिशाचादयः ज्योतिष्काः पञ्चधा चन्द्रादयः वैमानिका द्विधाकल्पोपगाः कल्पातीताश्च, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा - मैवेयका अनुत्तरोपपातिकाश्च
Jain Educationonal
For Personal & Private Use Only
Rainelibrary.org