________________
श्रीसमवायोग श्रीअभय ० वृत्ति:
॥१३४॥
Jain Educatio
पुढवीए अद्भुत्तरजोयणसयसहस्साई बाहल्लाए उवरि अद्धतेवन्नं जोयणसहस्साइं ओगाहेत्ता हेट्ठावि अद्धतेवन्नं जोयणसहस्साई वजित्ता मज्झे तिसु जोयणसहस्सेसु एत्थ णं सत्तमाए पुढवीए नेरइयाणं पंच अणुत्तरा महइमहालया महानिरया पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए अप्पइट्ठाणे नामं पंचमे, ते णं निरया वट्टे य तंसा य अहे खुरप्पसंठाणसंठिया जाव असुभा नरगा असुभाओ नरपसु वेयणाओ ( सूत्रं १४९ )
इह च प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं सर्वं तदक्षरमध्येतव्यं, किमवसानमित्याह - 'जाव से किं तमित्यादि, केवलमस्य प्रज्ञापनासूत्रस्य चायं विशेषः, इह 'दुवे रासी पण्णत्ता' इत्यभिलापसूत्रं (तत्र) तु 'दुविहा पण्णवणा पण्णत्ता - | जीवपणवण्णा अजीवपण्णवणा य'त्ति, अतिदिष्टस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तलेश उपदर्श्यते-तत्राजीवराशिर्द्विविधो रूप्यरूपिभेदात्, तत्रारूण्यजीवराशिदेशधा-धर्मास्तिकायस्तद्देशास्तत्प्रदेशश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपि वाच्यावेवं नव दशमोऽद्धासमय इति, रूप्यजीवराशिचतुर्द्धा -स्कन्धा देशाः प्रदेशाः परमाणवश्चेति, ते च वर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति । जीवराशिर्द्विविधः संसारसमापन्नोऽसंसारसमापन्नश्च तत्रासंसारसमापन्ना जीवा द्विविधाः अनन्तर परम्पर सिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकारा इति, संसारसमापन्नास्तु पञ्चधैकेन्द्रियादिभेदेन तत्रैकेन्द्रियाः पञ्चविधाः पृथिव्यादिभेदेन, पुनः प्रत्येकं द्विविधाः - सूक्ष्मवादरभेदेन, पुनः पर्याप्तापर्याप्तभेदेन द्विधा, एवं द्वित्रिचतुरिन्द्रिया
Jonal
For Personal & Private Use Only
१४९ रा शिप्रज्ञाप
नास्था
नानि.
॥१३४॥
jainelibrary.org