SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कामगुणाः कामस्य वा-मदनस्योद्दीपका गुणाः कामगुणाः-शब्दादय इति, तथा आश्रवद्वाराणि-कर्मोपादानोपाया है। मिथ्यात्वादीनि संवरस्य-कर्मानुपादानस्य द्वाराणि-उपायाः संवरद्वाराणि-मिथ्यात्वाद्याश्रवद्वारविपरीतानि सम्यक्त्वादीनि, तथा निर्जरा-देशतः कर्मक्षपणा तस्याः स्थानानि-आश्रयाः कारणानीतियावन्निर्जरास्थानानि-प्राणातिपातविरमणादीनि, एतान्येव च सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्राभिहितानि स्थूलशब्दविशेषितानि अणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषां साधारणमिति तदिहैषामभिहितं, तथा समितयः-सङ्गताः प्रवृत्तयः, तत्र्यासमितिः-गमने सम्यक् सत्त्वपरिहारतः प्रवृत्तिः भाषासमितिः-निरवद्यवचनप्रवृत्तिः, एषणास-13 मितिः-द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिः, आदाने-ग्रहणे भाण्डमात्रयोरुपकरणपरिच्छदस्य निक्षेपणेअवस्थापने समितिः-सुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोचारस्य–पुरीषस्य प्रश्रवणस्य-मूत्रस्य खेलस्यनिष्ठीवनस्य सिंघाणस्य-नासिकाश्लेष्मणो जल्लस्य-देहमलस्य परिष्ठापनायां-परित्यागे समितिः-स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरिति पञ्चमी, अस्तिकायाः-प्रदेशराशयः धर्मास्तिकायादयो गतिस्थित्यवगाहोपयोगस्पर्शादिलक्षणाः, स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तव्यः, यदुत-सांगरमेगं १ तिय २ सत्त ३ दस य ४ सत्तरस ५ तह य बावीसा ६। तेत्तीसं जाव ठिई सत्तसुवि कमेण मुढवीसु॥१॥ जा पढमाए जेट्ठा सा बीयाए १ सागरोपममेकं त्रीणि सप्त दश च सप्तदश तथा च द्वाविंशतिः । त्रयस्त्रिंशत् यावत् स्थितिः सप्तखपि कमेण पृथ्वीषु ॥१॥ या प्रथमायां ज्येष्ठा सा अग्रेतनायां - Jain Educati o n For Personal & Private Use Only B ainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy