SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ बद्धा-निष्पीडिता कच्छा-बन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधनं-अपनयनं तस्य कर्मविशेषस्य | 'वावित्ति सम्भावनायां 'होजा' सम्पद्यत नान्यो मोक्षोपायोऽस्तीति भावः, 'एत्तो येत्यादि इतश्चानन्तरं सुखविपाकेषु द्वितीयश्रुतस्कन्धाध्ययनेष्वित्यर्थः यदाख्यायते तदभिधीयत इति शेषः, शीलं-ब्रह्मचर्य समाधिर्वा संयमः-प्राणातिपातविरतिनियमा-अभिग्रहविशेषाः गुणाः-शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधानं-विधानं येषां ते तथा अतस्तेषु शीलसंयमनियमगुणतपउपधानेषु, केष्वित्याह-साधुषु-यतिषु, किम्भूतेषु ?-सुष्टु विहितं-अनुष्ठितं येषां ते सुविहितास्तेषु भक्तादि दत्त्वा यथा बोधिलाभादि निवर्तयन्ति तथेहाख्यायत इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दुष्टा, विषयस्य विवक्षणात्, अनुकम्पा-अनुक्रोशस्तत्प्रधान आशयः-चित्तं तस्य प्रयोगो-18 व्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा 'तिकालमति'त्ति त्रिषु कालेषु या मतिः-बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रैकालिमतिस्तया च यानि विशुद्धानि तानि तथा तानि च तानि भक्तपानानि चेति अनुकम्पाशयप्रयोगत्रिकालमतिविशुद्धभक्तपानानि प्रदायेति क्रियायोगः, केन प्रदायेत्याह-प्रयतमनसा-आदरभूतचेतसा, हितोऽनर्थपरिहाररूपत्वात् सुखहेतुत्वात् सुखः शुभो वा 'नीसेस'त्ति निःश्रेयसः कल्याणकरत्वात् तीव्रः-प्रकृष्टः परिणामः-अध्यवसानं यस्याः सा तथा सा निश्चिता-असंशया मतिः-बुद्धिर्येषां ते हितसुखनिःश्रेयसतीव्रपरिणामनिश्चितमतयः किं ?-पयच्छिऊणं'ति प्रदाय, किंभृतानि भक्तपानानि ?-प्रयोगेषु शुद्धानि दाय २२ सम० dan Education For Personal & Private Use Only nelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy