________________
श्रीसमवा-
यांगे श्रीअभय
१४६ विपाकश्रुतं.
वृत्तिः
॥१२६॥
च यच्छेदनं तत्तथा जिहाछेदनं 'अंजण'त्ति अञ्जनं तप्तायःशलाकया नेत्रयोः म्रक्षणं वा देहस्य क्षारतैलादिना 'कडग्गिदाहणं'ति कटानां-विदलवंशादिमयानामग्निः कटाग्निस्तेन दाहनं कटाग्निदाहनं, कटेन परिवेष्टितस्य बाधनमित्यर्थः, तथा गजचलनमलनं फालनं-विदारणं उल्लम्बनं-वृक्षशाखादावुद्वन्धनं तथा शूलेन लतया लकुटेन यष्ट्या च भञ्जनं गात्राणां तथा त्रपुणा-धातुविशेषेण सीसकेण च-तेनैव तप्तेन तैलेन च 'कलकल'त्ति सशब्देनाभिषेचनं तथा कुम्भ्यां-भाजनविशेषे पाकः कुम्भीपाकः कम्पनं-शीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननं तथा |स्थिरबन्धनं-निबिडनियन्त्रणं वेधः-कुन्तादिना शस्त्रेण भेदनं वर्द्धकर्त्तनं-त्वगुत्रोटनं प्रतिभयकर-भयजननं तच तत् करप्रदीपनं च-वसनावेष्टितस्य तैलाभिषिक्तस्य करयोरग्निप्रबोधनमिति कर्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः, ततस्तानि आदिर्येषां दुःखानां तानि च तानि दारुणानि चेति ककर्मधारयः, कानीमानीत्याह-दुःखानि, किंभूतानि ?-अनुपमानि दुःखविपाकेष्वाख्यायन्त इति प्रक्रमः, तथेदमाख्यायते बहुविविधपरम्पराभिः दुःखानामिति गम्यते, अनुबद्धाः-सन्ततमालिङ्गिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्ते-न त्यज्यन्ते, कया ?-पापकर्मवल्ल्या दुःखफलसम्पादिकया, किमित्याह-यतोऽवेदयित्वाअननुभूय कर्मफलमिति गम्यते हुर्यस्मादर्थे नास्ति-न भवति मोक्षो-वियोगः कर्मणः सकाशात्, जीवानामिति गम्यते, किं सर्वथा नेत्याह-तपसा-अनशनादिना किम्भूतेन ?-धृतिः-चित्तसमाधानं तद्रूपा 'धणिय'त्ति अत्यर्थ
॥१२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org