________________
१४६ विपाकश्रुतं.
श्रीसमवा-2 कदानव्यापारापेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारापेक्षया चोद्गमादिदोपवर्जितानि, ततः किं ?-|
यांगे यथा च-येन च प्रकारेण पारम्पर्येण-मोक्षसाधकत्वलक्षणेन निवर्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दो भाषाश्रीअभयद मात्रार्थः, बोधिलामं, यथा च परित्तीकुर्वन्ति-हसतां नयन्ति संसारसागरमिति योगः, किंभूतं ?-नरनिरयतिर्यक्सुवृत्तिः रगतिषु यजीवानां गमनं-परिभ्रमणं स एव विपुलो-विस्तीर्णः परिवों-मत्स्यादीनां परिवर्तनमनेकधा सञ्चरणं यत्र ॥१२७॥ स तथा, तथा अरतिभयविषादशोकमिथ्यात्वान्येव शैलाः-पर्वतास्तैः सङ्कटः-सङ्कीर्णो यः स तथा ततः कर्मधा-1
रयोऽतस्तं, इह च विपादो-दैन्यमानं शोकस्त्वाक्रन्दनादिचिह्न इति, तथा अज्ञानमेव तमोऽन्धकारं-महान्धकार | यत्र स तथा अतस्तं, 'चिक्खिलसुदुत्तारंति चिक्खिलं-कर्दमः संसारपक्षे तु चिक्खिलं-विषयधनखजनादिप्रतिबन्धस्तेन सुदुस्तरो-दुःखोत्तार्यो यः स तथा तं, तथा जरामरणयोनय एव संक्षुभितं-महामत्स्यमकराधनेकजलजन्तुजातसम्मर्दैन प्रविलोडितं चक्रवालं-जलपारिमाण्डल्यं यत्र स तथा तं, तथा पोडश कषाया एव खापदानि-मकरग्राहादीनि प्रकाण्डचण्डानि-अत्यर्थे रौद्राणि यत्र स तथा तं, अनादिकमनवदग्रमनन्तं संसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निबध्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः, यथा चानुभवन्ति सुरगणविमानसौख्यानि अनुपमानि, ततश्चकालान्तरेण च्युतानाम् 'इहेव'त्ति तिर्यग्लोके नरलोकमागतानामायुर्वेपुर्वर्ण रूपजातिकुलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं
॥१२७॥
Bain Education
For Personal & Private Use Only
www.jainelibrary.org