SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Jain Education l राजानः अम्बापितरौ समवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिका ऋद्धिविशेषा उपासकानां च शीलव्रतविरमणगुणप्रत्याख्यानपौषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि - अणुव्रतानि विरमणानि - रागादिविरतयः गुणा - गुणत्रतानि प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधः - अष्टम्यादिपर्वदिनं तत्रोपवसनमाहारशरीरसत्कारादित्यागः पौषधोपवासः, ततो द्वन्द्वे सत्येतेषां प्रतिपादनताः - प्रतिपत्तय इति विग्रहः, श्रुतपरिग्रहास्तपउपधानानि प्रतीतानि 'पडिमाओ'त्ति एकादश उपासकप्रतिमाः कायोत्सर्गा वा उपसर्गा-देवादिकृतोपद्रवाः संलेखना - भक्तपानप्रत्याख्यानानि, पादपोपगमनानि देवलोकगमनानि सुकुलप्रत्यायातिः पुनर्वोधिलाभोऽन्तक्रिया चाख्या - यन्ते पूर्वोक्तमेवेतो विशेषत आह - 'उवासगे 'त्यादि, तत्र ऋद्धिविशेषा-अनेक कोटी संख्याद्रव्यादिसम्पद्विशेषाः तथा परिषदः - परिवारविशेषा यथा मातापितृपुत्रादिका अभ्यन्तरपरिषत् दासीदासमित्रादिका वायपरिषदिति, विस्तरधर्मश्रवणानि महावीरसन्निधौ, ततो बोधिलाभोऽभिगमः - सम्यक्त्वस्य विशुद्धता स्थिरत्वं सम्यक्त्वशुद्धिरेव मुलगूणोत्तरगुणा - अणुव्रतादयः अतिचारास्तेषामेव-वधवन्धादितः खण्डनानि स्थितिविशेषाश्च - उपासकपर्यायस्य कालमानभेदाश्च बहुविशेषाः प्रतिमाः - प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमाः अभिग्रहग्रहणानि तेषामेव च पालनानि उपसर्गाधिसहनानि निरुपसर्गश्च - उपसर्गाभावश्चेत्यर्थः, तपांसि च विचित्राणि शीलत्रतादयोऽनन्तरोक्तरूपा अपश्चिमाः For Personal & Private Use Only elibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy