________________
श्रीसमवा
यांगे
श्रीअभय वृत्तिः
॥११७॥
OCRACHCRACANCE
रण निःसहकनिविष्टास्तेषा, इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्या भग्ना इत्यादौ दीर्घत्वमवसेयं, तथा घोर
१४१ज्ञापरीपहैः पराजिताश्चासहाश्च-असमर्थाः सन्तः प्रारब्धाश्च-परीषहैरेव वशीकर्तुं रुद्धाश्च मोक्षमार्गगमने ये ते घोर- ताधर्मकपरीषहपराजितासहप्रारब्धरुद्धाः अत एव सिद्धालयमार्गात्-ज्ञानादेर्निर्गताः-प्रतिपतिता ये ते तथा ते च ते चेति थाधिकारः तेषां घोरपरीषहपराजितासहप्रारब्धरुद्धसिद्धालयमार्गनिर्गतानां, पाठान्तरेण घोरपरीपहपराजितानां तथा सहयुगपदेव परीषहैर्विशिष्टगुणश्रेणिमारोहन्तः प्ररुद्धरुद्धाः-अतिरुद्धाः सिद्धालयमार्गनिर्गताश्च ये ते तथा तेषां| सहप्ररुद्धसिद्धालयमार्गनिर्गतानां, तथा विषयसुखेषु तुच्छेषु खरूपतः आशावशदोषेण-मनोरथपारतव्यवैगुण्येन मूञ्छिता-अध्युपपन्ना ये ते तथा तेषां विषयसुखतुच्छाशावशदोषमूर्छितानां पाठान्तरेण विषयसुखे या महेच्छा कस्यांचिदवस्थायां या चावस्थान्तरे तुच्छाशा तयोर्वशः-पारतन्त्र्यं तल्लक्षणेन दोषेण मूञ्छिता येते तथा तेषां विषयसुखमहेच्छातुच्छाशावशदोषमूर्छितानां, तथा विराधितानि चारित्रज्ञानदर्शनानि यैस्ते तथा, तथा यतिगुणेषु विविधप्रकारेषु मूलगुणोत्तरगुणरूपेषु निःसाराः-सारवर्जिताः पलञ्जिप्रायगुणधान्या इत्यर्थः, तथा तैरेव यतिगुणैः शून्यकाः सर्वथा अभावाद्ये ते तथेति, पदत्रयस्य च कर्मधारयोऽतस्तेषां विराधितचारित्रज्ञानदर्शनयतिगुणविविधप्रकारनिः-४॥११७॥ सारशून्यकानां, किमत आह-संसारे-संसृतौ अपारदुःखा-अनन्तक्लेशा ये दुर्गतिषु-नारकतिर्यकुमानुपकुदेवत्वरूपासु भवा-भवग्रहणानि तेषां ये विविधाः परम्पराः-पारम्पर्याणि तासां ये प्रपञ्चास्ते संसारापारदुर्गतिभवविविधपरम्परा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org