________________
HARASSASALARIAK
कथाश्च ज्ञाताधर्मकथाः, तत्र प्रथमं व्युत्पत्त्यर्थे सूत्रकारो दर्शयन्नाह-नायाधम्मकहासु णमित्यादि, ज्ञाताना-उदाहरणभूतानां मेघकुमारादीनांनगरादीन्याख्यायन्ते, नगरादीनि द्वाविंशतिः पदानि कण्ठ्यानि च, नवरमुद्यानं-पत्रपुष्पफलच्छायोपगतवृक्षोपशोभितं विविधवेषोन्नतमानश्च बहुजनो यत्र भोजनार्थ यातीति, चैत्यं-व्यन्तरायतनं, वनखण्डोऽनेकजातीयैरुत्तमैवृक्षरुपशोभित इति, 'आपविजंति' इह यावत्करणादन्यानि पंच पदानि दृश्यानि यावदयं सूत्रावयवो यथा 'नायाधम्मेत्यादि, तत्र ज्ञाताधर्मकथासु णमित्यलङ्कारे प्रव्रजितानां, व?-'विनयकरणजिनखामिशासनवरे' कर्मविनयकरे जिननाथसम्बन्धिनि शेषप्रवचनापेक्षया प्रधाने प्रवचने इत्यर्थः, पाठान्तरेण 'समणाणं |विणयकरणजिणसासणंमि पवरे' किंभूतानां?-संयमप्रतिज्ञा-संयमाभ्युपगमः सैव दुरधिगम्यत्वात् कातरनरक्षोभकत्वागम्भीरत्वाच पातालमिव पातालं तत्र धृतमतिव्यवसाया दुर्लभा येषां ते तथा, पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बला येते तथा तेषां, तत्र धृतिः-चित्तवास्थ्यं मतिः-बुद्धिर्व्यवसायः-अनुष्ठानोत्साह इति, तथा तपसि नियमः-अवश्यकरणं तपोनियमो नियत्रितं तपः स च तप उपधानं चानियत्रितं तप एव श्रुतोपचारः तपोनियमतपउपधाने ते एव रणश्च-कातरजनक्षोभकत्वात सङ्कामो 'दुद्धरभर'त्ति श्रमकारणत्वाहुर्द्धरभरश्च-दुर्वहलोहादिभारस्ताभ्यां भग्ना इति(एव)-भग्नका:-पराखीभूतास्तथा 'निस्सहगनिसट्ठाणं'ति निःसहा-नितरामशक्तास्त एव निःसहका निसृष्टाश्च-निसृष्टाङ्गा मुक्ताका ये ते तपोनियमतपउपधानरणदुर्धरभरभरकनिःसहकनिसृष्टाः, पाठान्त
Jain Educati
o nal
For Personal & Private Use Only
Olainelibrary.org