________________
AASAR
प्रपञ्चाः, आख्यायन्ते इति पूर्वेण योगः, तथा धीराणां च-महासत्त्वानां, किंभूतानां ?-जितं परीषहकषायसैन्यं यैस्ते तथा, धृतेः-मनःस्वास्थ्यस्य धनिकाः-स्वामिनो धृतिधनिकाः, तथा संयमे उत्साहो-वीर्य निश्चितः-अवश्यंभावी येषां(ते)संयमोत्साहनिश्चितास्ततः पदत्रयस्य कर्मधारयोऽतस्तेषां जितपरीषहकषायसैन्यधृतिधनिकसंयमोत्साहनिश्चि-| तानां, तथा आराधिता ज्ञानदर्शनचारित्रयोगा यैस्ते तथा निःशल्यो-मिथ्यादर्शनादिशल्यरहितः शुद्धश्च-अतीचारविमुतो यः सिद्धालयस्य-सिद्धेर्यो(:)मार्गस्तस्याभिमुखा येते तथा ततः पदद्वयस्य कर्मधारयःअतस्तेषामाराधितज्ञानदर्शनचारित्रयोगनिःशल्यशुद्धसिद्धालयमार्गाभिमुखानां, किमत आह-सुरभवने-देवतयोत्पादे यानि विमानसौख्यानि तानि सुरभवनविमानसौख्यानि अनुपमानि ज्ञाताधर्मकथाखाख्यायन्त इति प्रक्रमः, इह च भवनशब्देन भवनपतिभवनानि नव्याख्यातान्यविराधितसंयमप्रवजितप्रस्तावात् ,ते हि भवनपतिषु नोत्पद्यन्त इति, तथा भुक्त्वा चिरं च भोगभोगान्-मनोज्ञशब्दादीन् तांस्तथाविधान् दिव्यान्-खर्गभवान् ‘महान्'ि महतः-आत्यन्तिकान् अन्-िप्रशस्ततया पूज्यानिति भावः, ततश्च-देवलोकात् कालक्रमच्युतानां यथा पुनर्लब्धसिद्धिमार्गाणां-मनुजगताववाप्तज्ञानादीनामन्तक्रिया-मोक्षो भवति तथाऽऽख्यायन्त इति प्रक्रमः, तथा चलितानां च-कथञ्चित्कर्मवशतः परीषहादावधीरतया संयमप्रतिज्ञायाः प्रभ्रष्टानां सह देवैर्मानुषाः सदेवमानुषास्तेषां सम्बन्धीनि धीरकरणे-धीरत्वोत्पादने यानि कारणानि-ज्ञातानि तानि | सदेवमानुषधीरकरणकारणानि आख्यायन्त इति प्रक्रमः, इयमत्र भावना-यथा आर्याषाढो देवेन धीरीकृतो यथा वा
dain Education
For Personal & Private Use Only
nelibrary.org