________________
प्रभृतयः मन एव दण्डो मनोदण्डो मनसा वा दुष्प्रयुक्तेनात्मनो दण्डो-दण्डनं मनोदण्डः एवमितरावपि, तथा गोपनानि गुप्तयः-मनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि शुभप्रवृत्तिकरणानि चेति । तथा तोमरादिशल्यानीव शल्यानि दुःखदायकत्वात् मायादीनि, तत्र माया-निकृतिः सैव शल्यं मायाशल्यं 'ण'मित्यलङ्कारे एवमितरे अपि नवरं निदानं-देवादिऋद्धीनां दर्शनश्रवणाभ्यामितो ब्रह्मचर्यादेरनुष्ठानान्ममैता भूयासुरित्यध्यवसायो मिथ्यादर्शनम्-अतत्त्वार्थश्रद्धानमिति । तथा गौरवाणि-अभिमानलोभाभ्यामात्मनोऽशुभभावगुरुत्वानि तानि च संसारचक्रवालपरिभ्रमणहेतुकर्मनिदानानि, तत्र ऋद्या-नरेन्द्रादिपूज्याचार्यत्वादिलक्षणया गौरवम् , ऋद्धिप्राप्त्यभिमानतदप्राप्तिप्रार्थनद्वारेणात्मनोऽशुभभावगौरवमित्यर्थः, एवं रसेन गौरवं रसगौरवं सातया गौरवं सातगौरवं चेति । तथा विराधनाः-खण्डनाः, तत्र ज्ञानस्य विराधना ज्ञानविराधना-ज्ञानप्रत्यनीकतानिवादिरूपा एवमितरे अपि, नवरं दर्शनं-सम्यग्दर्शनं क्षायिकादि चारित्रं-सामायिकादीति । तथा असङ्ख्यातवर्षायुपां पञ्चेन्द्रियतिर्यग्मनुष्याणां देवकुरूत्तरकुरुजन्मनां त्रीणि पल्योपमानीति, तथा आभङ्करं प्रभङ्करं आभङ्करप्रभङ्करं चन्द्रं चन्द्रावतै चन्द्रप्रभ चन्द्रकान्तं चन्द्रवर्ण चन्द्रलेश्यं चन्द्रध्वजं चन्द्रशृङ्गं चन्द्रसृष्टं चन्द्रकूटं चन्द्रोत्तरावतंसकं विमानमित्यादि ॥३॥
चत्तारि कसाया प० तं०-कोहकसाए माणकसाए मायाकसाए लोभकसाए, चत्तारि झाणा प० तं0-अट्टज्झाणे रुद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे, चत्तारि विगहाओ प० त०-इत्थिकहा भत्तकहा रायकहा देसकहा, चत्तारि सण्णा प० तं०-आहार०
JainEducation
)
For Personal & Private Use Only
nelibrary.org