________________
अंगमा गृह्यन्ते अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात्तत्तद्धर्मविशिष्टानन्तधात्मकवस्तुप्रतिपत्तेः, अन्ये तु व्याचक्षते-अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, अनन्ताः पर्यायाः खपरभेदभिन्ना अक्षरार्थपर्याया इत्यर्थः, परित्तास्त्रसा आख्यायन्त इति योगः, त्रसन्तीति त्रसाः-द्वीन्द्रियादयस्ते च परीत्ता नानन्ताः, एवंरूपत्वादेव तेषां, अनन्ताः स्थावरा वनस्पतिकायसहिताः, किंभूता एते ?-'सासया कडा निबद्धा निकाइय'त्ति शाश्वताः द्रव्यार्थतया अविच्छेदेन प्रवृत्तेः कृताः पर्यायार्थतया प्रतिसमयमन्यथात्वावासेर्निबद्धाः-सूत्र एव प्रथिता निकाचिता-निर्यक्तिसङ्ग्रहणिहेतूदाहरणादिभिः प्रतिष्ठिता जिनैः प्रज्ञप्ता भावाः-पदार्था अन्येऽप्यजीवादयः “आघ|विजंति'त्ति प्राकृतशैल्या आख्यायन्ते-सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदाभिधानेन, प्ररूप्यन्ते नामादिखरूपकथनेन, यथा 'पजायाणभिधेय'मित्यादि, दयन्ते उपमामात्रतः 'यथा गौर्गवयस्तथा' इत्यादि, निदयन्ते हेतुदृष्टान्तोपन्यासेन उपदर्श्यन्ते उपनयनिगमनाभ्यां सकलनयाभिप्रायतो वेति, साम्प्रतमाचाराङ्गग्रहणफलप्रतिपादनायाह-से एव'मित्यादि, स इत्याचाराङ्गग्राहको गृह्यते, 'एवं आय'त्ति अस्मिन् भावतः सम्यगधीते सत्येवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदं च सूत्रं पुस्तकेषु न दृष्टं नन्द्यां तु |दृश्यते इतीह व्याख्यातमिति, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थ क्रियापरिणाममभिधायाधुना ज्ञानमधिकृत्य आह-'एवं नाय'त्ति इदमधीय एवं ज्ञाता भवति यथैवेहोक्तमिति, "एवं विनाय'त्ति विविधो विशिष्टो वा ज्ञाता
१९ सम.
Jain Education
a
l
For Personal & Private Use Only
linelibrary.org