________________
जम्बूद्वीपस्य पञ्चाशत्सहस्राणि ततो द्विचत्वारिंशत् सहस्राण्यतिक्रम्य गोस्तुभपर्वत इति सूत्रोक्तमन्तरं भवतीति, एवं शेषाणामपि ॥ ९२ ॥ चंदप्पहस्स णं अरहओ तेणउई गणा तेणउई गणहरा होत्था, संतिस्स णं अरहओ तेणउई चउद्दसपुव्विसया होत्था, तेणउईमं
डलगते णं सूरिए अतिवट्टमाणे निवट्टमाणे वा समं अहोरतं विसमं करेइ । सूत्रं ९३ ॥ ___ अथ त्रिनवतिस्थानके किमपि वितन्यते, 'तेणउईमंडले'त्यादि, तत्र अतिवर्तमानो वा-सर्वबाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् निवर्तमानो वा-सर्वाभ्यन्तरात् सर्वबाचं प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोतीत्यर्थः, अहश्च रात्रिश्च अहोरात्रं तयोः समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्ता उभयोरपि भवन्ति, तत्र | सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्तमहर्भवति रात्रिश्च द्वादशमुहूर्ता, सर्वबाह्ये तु व्यत्ययः, तथा त्र्यशीत्यधिकमण्डलशते द्वौ द्वावेकषष्टिभागौ वर्द्धते हीयेते च, यदा च दिनवृद्धिस्तदा रात्रिहानिः रात्रिवृद्धौ च दिनहानिरिति, तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहूर्तेकषष्टिभागद्वयवृद्ध्या त्रयो मुहूर्ता एकेनैकषष्टिभागेनाधिकाः वर्द्धन्ते वा हीयन्ते वा, तेषु च द्वादशमुहूर्तेषु मध्ये क्षिप्तेषु अष्टादशभ्योऽपसारितेषु वा पञ्चदश मुहूर्त्ता उभयत्रकेनकषष्टिभागे8/नाधिका हीना वा भवन्तो द्विनवतितममण्डलस्यार्द्ध समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति, द्विनव
तितमं मण्डलं चादित आरभ्य त्रिनवतितमं तत्र च मण्डले यथोक्तः सूत्रार्थ इति ॥ ९३ ॥
१७ सम.
Jain Education
L
o nal
For Personal & Private Use Only
M
ainelibrary.org