SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायांगे श्री अभय ० वृत्तिः ॥९६॥ + -646 सारेण दर्श्यन्ते, तत्र किल पञ्च प्रतिमा उक्ताः, तद्यथा - समाधिप्रतिमा द्विविधा १ उपधानप्रतिमा २ विवेकप्रतिमा ३ प्रतिसंलीनताप्रतिमा ४ एकविहारप्रतिमा चेति ५, तत्र समाधिप्रतिमा द्विविधा श्रुतसमाधिप्रतिमा चारित्रसमाधिप्रतिमा च दर्शनं ज्ञानान्तर्गतमिति न भिन्ना दर्शनप्रतिमा विवक्षिता, तत्र श्रुतसमाधिप्रतिमा द्विषष्टिभेदा, कथं ?, आचारे प्रथमे श्रुतस्कन्धे पञ्च द्वितीये सप्तत्रिंशत् स्थानाङ्गे पोडश व्यवहारे चतस्र इत्येता द्विषष्टिः, एताश्च चारित्रस्वभावा अपि विशिष्टश्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टा इति सम्भावयामः, पञ्च | सामायिकच्छेदोपस्थापनीयाद्याश्चारित्रसमाधिप्रतिमाः, उपधानप्रतिमा द्विविधा भिक्षुश्रावकभेदात्, तत्र भिक्षुप्रतिमा 'मासाइसत्ता' इत्यादिनाऽभिहितखरूपा द्वादश उपासप्रतिमास्तु 'दंसणवय' इत्यादिनाऽभिहितखरूपा एकादशेति सर्वास्त्रयोविंशतिर्विवेकप्रतिमा त्वेका क्रोधादेरारभ्यन्तरस्य गणशरीरोपधिभक्तपानादेर्वाह्यस्य च विवेच|नीयस्यानेकत्वेऽप्येकत्वविवक्षणादिति, प्रतिसंलीनताप्रतिमाऽप्येकैव इन्द्रियखरूपस्य पञ्चविधस्य नोइन्द्रियखभावस्य च योगकषायविविक्तशयनासनभेदतस्त्रिविधस्य प्रतिसंलीनताविषयस्य भेदेनाविवक्षणादिति पञ्चम्येकविहारप्रतिमैकैव, न चेह सा भेदेन विवक्षिता, भिक्षुप्रतिमाखन्तर्भावितत्वादित्येवं द्विषष्टिः पञ्च त्रयोविंशतिरेका एका च द्विनवतिस्ता भवन्तीति । स्थविर इन्द्रभूतिर्महावीरस्य प्रथमगणनायकः, स च गृहस्थपर्याये पञ्चाशतं वर्षाणि त्रिंशतं छद्म| स्थपर्यायं द्वादश च केवलित्वं पालयित्वा सिद्ध इति सर्वाणि द्विनवतिरिति । 'मंदरस्से' त्यादि, भावार्थः, मेरुमध्यभागात् Jain Education International For Personal & Private Use Only ९२ स मवाया. ॥ ९६ ॥ www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy