________________
त्तिकरणं-सम्यकशास्त्रपदमध्यापितस्य विशेषेण विनये वर्त्तनं तदर्थानुष्ठानं च, शेषाणि प्रसिद्धानि, तथा वैयावृत्त्यं
दशधा, यदाह-'आयरिय उवज्झाए थेरतवस्सी गिलाणसेहाणं । साहम्मिय कुलगणसंघसङ्गयं तमिह कायचं ॥१॥' [आचार्योपाध्यायस्थविरतपखिग्लानशैक्षाणां । साधर्मिके कुलगणसंघानां संगतं तदिह कर्त्तव्यं ॥ १॥] इति, तत्र प्रजाजना १ दिगु २ देश ३ समुद्देश ४ वाचना ५ चार्यविनयो भवति, तथौपचारिकविनयोऽभ्यासवृत्त्यादिः सप्तधा, तथा वैयावृत्त्यं दशभेदादाचार्यस्य च पञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदा एते एव अभिग्रहविषयीभूताः प्रतिमा उच्यन्त इति । दर्श०१० अना०६० औप०७ वैया० १४॥ तथा 'कालोए णं'ति कालोदः समुद्रः, स चैकनवतिर्लक्षाणि साधिकानि परिक्षेपेण, आधिक्यं च सप्तत्या सहस्त्रैः पड्भिः शतैः पञ्चोत्तरैः सप्तदशभिर्धनुःशतैः पञ्चदशोत्तरैः सप्ताशीत्या चालैः साधिकैरिति 'आहोहिय'त्ति नियतक्षेत्रविषयावधयः । आयुर्गोत्रवर्जानां 'पण्णामिति ज्ञानावरणदर्शनावरणवेदनीयमोहनीयनामान्तरायाणां क्रमेण पञ्चनवद्यष्टाविंशतिर्द्विचत्वारिंशत्पञ्चभेदानामिति ॥११॥ बाण उई पड्रिमाओ पं०, थेरे णं इंदभूती वाणउइ वासाइं सवाउयं पालइत्ता सिद्धे बुद्धे, मंदरस्स णं पव्वयस्स बहुमज्झदेसभागाओ गोथुभस्स आवासपव्वयस्स पञ्चच्छिमिले चरमंते एस णं बाणउई जोयणसहस्साई अबाहाए अंतरे प०, एवं चउण्डंपि आवासपव्वयाणं ॥ सूत्रं ॥ ९२॥ अथ द्विनवतिस्थानके किमप्यभिधीयते, द्विनवतिः प्रतिमाः-अभिग्रहविशेषाः, ताश्च दशाश्रुतस्कन्धनियुक्त्यनु
in Education
For Personal & Private Use Only
Millainelibrary.org