________________
श्रीसमवायांगे श्री अभय०
वृत्ति:
॥९५॥
Jain Education
तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनमिति ४ आसनानुप्रदानं - आसनस्य स्थानात् स्थानान्तरसञ्चारणं ५ कृतिकर्म्मादीनि प्रकटानि, तथा तीर्थङ्करादीनां पञ्चदशानां पदानामनाशातनादिपदचतुष्टयगुणितत्वे षष्टिविधोऽनाशातनाविनयो भवति, तथाहि - तित्थयर १ धम्म २ आयरिय ३ वायग ४ थेरे ५ (य) कुल ६ गणे ७ सङ्घ ८ । सम्भो इय ९ किरियाए १० मइनाणाई (ण) १५ य तहेव ॥ १ ॥ [ तीर्थकर धर्माचार्यवाचकस्थविरकुलगणसंघेषु । साम्भोगिकक्रिययोः मतिज्ञानादीनां तथैव ॥ १ ॥ ] अत्र भावना - तीर्थकराणामनाशातना तीर्थकरानाशातना, तीर्थङ्करप्रज्ञतस्य | धर्मस्य अनाशातनाविनयः, एवं सर्वत्र भावना कर्तव्या, "अणसायणा य भत्ती वहुमाणो तहय वण्णवाओ य । अरहंतमाइयाणं केवलणाणावसाणाणं ॥ १ ॥” इति [ अनाशातना च भक्तिर्वहुमानस्तथैव वर्णवादश्च । अर्हदादीनां | केवलज्ञानावसानानां ॥ १ ॥ ] तथौपचारिकविनयः सप्तधा, यदाह - " अन्भासासण १ छंदाणुवत्तणं २ कयपडिकिई तहय ३ । कारियनिमित्तकरणं ४ दुक्ख त्तगवेसणा तहय ॥ १ ॥ तह देसकालजाणण सबत्थे (सु) तहय अणुमई भणिया ७ । उवयारिओ उ विणओ एसो भणिओ समासेणं ॥ २ ॥ [ अभ्यासासनं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिस्तथा च । कारितनिमित्तं करणं दुःखार्तगवेषणं तथैव ॥ १ ॥ तथा देशकालज्ञानं सर्वार्थेषु तथा चानुमतिर्भणिता औपचारिकस्तु | विनय एष भणितः समासेन ॥२॥ ] इति, अभ्यासासनं - उपचरणीय स्थान्तिकेऽवस्थानं छन्दोऽनुवर्त्तनं - अभिप्रायानुवृत्तिः कृतप्रतिकृतिर्नाम - प्रसन्ना आचार्याः सूत्रादि दास्यन्ति न नाम निर्जरेति मन्यमानस्याहारादिदानं कारितनिमि
For Personal & Private Use Only
९१ स मवाया.
1154 11
winelibrary.org