________________
नवतिवर्षाणि विजयः-पृथिवीसाधनव्यापारः, 'सवेसि णमित्यादि, सर्वेषा विंशतेरपि वर्तुलवैताख्यानां-शब्दापातिप्रभृतीनां योजनसहस्रोच्छ्रितत्वात् सौगन्धिककाण्डचरमान्तस्य चाष्टसु सहस्रेषु व्यवस्थितत्वात् नवसु सहस्रेषु नवतेः शतानां भावात् सूत्रोक्तमन्तरमनवद्यमिति ॥ ९ ॥ एकाणउई परवेयावच्चकम्मपडिमाओ प०, कालोए णं समुद्दे एकाणउई जोयणसयसहस्साई सहियाइं परिक्खेवेणं प०, कुंथुस्स णं अरहओ एकाणउई आहोहियसया होत्था, आउयगोयवजाणं छण्हं कम्मपगडीणं एकाणउई उत्तरपगडीओ प०॥ सूत्रं ९१ ॥
अथैकनवतिस्थानके किञ्चिद्वितन्यते, तत्र परेषां-आत्मव्यतिरिक्तानां वैयावृत्यकर्माणि-भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषयाः प्रतिमाः-अभिग्रहविशेषाः परवैयावृत्त्यकर्मप्रतिमाः, एतानि च प्रतिमात्वेनाभिहितानि क्वचि|दपिनोपलब्धानि, केवलं विनयवैयावृत्त्यभेदा एते स(म्भव)न्ति, तथाहि-दर्शनगुणाधिकेषु सत्कारादिर्दशधा विनयः,8
आह च-"सक्कार १ ब्भुट्ठाणे २ सम्माणे ३ आसण[भि]ग्गहो ४ तहय । आसणअणुप्पयाणं ५ किइकम्मं ६ अअलिगहो य ७॥१॥ इंतस्सणुगच्छणया ८ ठियस्स तह पजुवासणा भणिया ९। गच्छंताणुवयणं १० एसो सुस्सूसणाविणओ' ॥२॥ [सत्कारोऽभ्युत्थानं सन्मानं आसनाभिग्रहः तथा च । आसनानुप्रदानं कृतिकर्म अञ्जलिप्रग्रहः ॥१॥]त्ति [ आयतोऽनुगमनं स्थितस्य तथा पर्युपासना भणिता। गच्छतोऽनुव्रजनं एष शुश्रूषाविनयः ॥२॥] तत्र सत्कारो-वन्दनस्तवनादिः १ अभ्युत्थानं-आसनत्यागः २ सन्मानो-वस्त्रादिपूजनं ३ आसनाभिग्रहः
Jain Education
For Personal & Private Use Only