________________
श्रीसमवा
८५-८६ समवाया.
यांग
श्रीअभय
वृत्तिः
॥९२॥
RC5%
9C%C5%नन
रुचको-रुचकाभिधानत्रयोदशद्वीपान्तर्गतः प्राकाराकृती रुचकद्वीपविभागकारितया स्थितः, अत एव मण्डलिकपर्वतो, मण्डलेन व्यवस्थितत्वात् , स च सहस्रमवगाढश्चतुरशीतिरुच्छ्रित इति पञ्चाशीतिः सहस्राणि सर्वाग्रेणेति, तथा 'नन्दनवनस्य' मेरोः पञ्चयोजनशतोच्छ्रितायां प्रथममेखलायां व्यवस्थितस्याधस्त्याचरमान्तात् 'सौगन्धिककाण्डस्य' रत्नप्रभापृथिव्याः खरकाण्डाभिधानप्रथमकाण्डस्यावान्तरकाण्डभूतस्याष्टमस्य सौगन्धिकाभिधानरत्नमयस्य सौगन्धिककाण्डस्याधस्त्यश्वरमान्तः पञ्चाशीतिर्योजनशतान्यन्तरमाश्रित्य भवति, कथम् ?, पञ्च शतानि मेरोः सम्बन्धीनि प्रत्येक च सहस्रप्रमाणत्वादवान्तरकाण्डानामष्टमकाण्डमशीतिशतानीति ॥ ८५॥ सुविहिस्स णं पुप्फदन्तस्स अरहओ छलसीइ गणा छलसीइ गणहरा होत्था, सुपासस्स णं अरहओ छलसीई वाइसया होत्था, दोच्चाए णं पुढवीए बहुमज्झदेसभागाओ दोच्चस्स घणोदहिस्स हेठिले चरमंते एस णं छलनीइ जोयणसहस्साई अबाहाए अंतरे प०॥ (सूत्रं) ८६॥
अथ षडशीतिस्थानके किमपि लिख्यते, तत्र सुविधेः-नवमजिनस्वेह षडशीतिर्गणा गणधराश्चोक्ता आवश्यके तु अष्टाशीतिरिति मतान्तरमिदं, तथा द्वितीया पृथिवी-शर्करप्रभा, सा च बाहल्यतो द्वात्रिंशत्सहस्राधिकलक्षमाना तदर्द्ध षट्षष्टिः सहस्राणि घनोदधिश्च तदधोवर्ती द्वितीयापृथिवीसम्बन्धित्वात् द्वितीयो विंशतिः सहस्राणि बाहल्यत इति षडशीतियथोक्तमन्तरं भवतीति ॥ ८६ ॥
Jain Education
a
l
For Personal & Private Use Only
M
nelibrary.org