SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Jain Educatio मक्खायं ति एतानि विमानान्येवं भवन्ति इति हेतोराख्यातानि भगवता सर्वज्ञत्वात् सत्यवादित्वाच्चेति ॥ ८४ ॥ आयारस्स णं भगवओ सचूलियागस्स पंचासीइ उद्देसणकाला प०, धायइसण्डस्स णं मंदरा पंचासीइ जोयणसहस्साइं सव्वग्गेणं प०, रुयए णं मंडलियपव्वए पंचासीइ जोयणसहस्साइं सव्वग्गेणं प०, नंदणवणस्स णं हेहिलाओ चरमंताओ सोगंधियस्स कंडस्स हेट्ठिल्ले चरमंते एस णं पंचासीइ जोयणसयाई अबाहाए अंतरे प० ॥ ( सूत्रं ) ८५ ॥ अथ पञ्चाशीतिस्थानके किञ्चिल्लिख्यते, तत्राचारस्य - प्रथमाङ्गस्य नवाध्ययनात्मकप्रथम श्रुतस्कन्धरूपस्य 'सचूलि - यागस्स' इति द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिकाः तासु च पञ्चमी निशीथाख्येह न गृह्यते भिन्नस्थानरूपत्वातस्याः, तासु च प्रथमद्वितीये सप्तसप्ताध्ययनात्मिके तृतीयचतुर्थ्यावे के काध्ययनात्मिके तदेवं सह चूलिकाभिर्वर्त्तत | इति सचूलिकाकस्तस्य पञ्चाशीतिरुदेशन काला भवन्तीति, प्रत्यध्ययनं उद्देशन कालानामेतावत्संख्यत्वात्, तथाहिप्रथमश्रुतस्कन्धे नवस्वध्ययनेषु क्रमेण सप्त ७ षट् १३ चत्वार १७ चत्वारः २१ षट् २७ पञ्च ३२ अष्ट ४० चत्वारः ४४ सप्त ५१ चेति, द्वितीयश्रुतस्कन्धे तु प्रथमचूलिकायां सप्तखध्ययनेषु क्रमेण एकादश ६२ त्रय ६५ स्त्रयः ६८ चर्तुषु द्वौ द्वौ ७६ द्वितीयायां सप्तैकसराणि ८३ अध्ययनान्येवं तृतीयैकाध्ययनात्मिका ८४ एवं चतुर्थ्यपीति ८५ | सर्वमीलने पञ्चाशीतिरिति । तथा धातकीखण्डमन्दरौ सहस्रमवगाढौ चतुरशीतिसहस्राण्युच्छ्रिताविति पञ्चाशीतियजनसहस्राणि सर्वाग्रेण भवतः, पुष्करार्द्धमन्दरावप्येवं, नवरं सूत्रे नाभिहितौ विचित्रत्वात्सूत्रगतेरिति, तथा For Personal & Private Use Only Jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy