________________
गइयाणं देवाणं एग सागरोवम मिति, अत्र देवानामेव ग्रहणं न तु देवीनां, उत्कृष्टतोऽपि तत्र तासां पञ्चाशत्पल्योपमस्थितिकत्वात् , तथा एकं सागरोपममिति मध्यमस्थित्यपेक्षया, उत्कर्षतस्तत्र सागरोपमद्वयसद्भावात् , प्रस्तटापेक्षया त्वेषा सप्तमे प्रस्तटे मध्यमावसेया। 'ईसाणे कप्पे देवाण'मित्यत्र देवग्रहणेन देवा देव्यश्च गृह्यन्ते, यतस्तत्र सातिरेकपल्योपमादन्या जघन्यतः स्थितिरेव नास्ति, 'ईसाणे कप्पे देवाणं अत्थेगइयाण'मित्यत्र देवानामेव ग्रहणं न |देवीनां, तत्र तासामुत्कर्षतोऽपि पञ्चपञ्चाशत्पल्योपमस्थितिकत्वादिति, तथा ये देवाःसागरं-सागराभिधानमेवं सुसागरं सागरकान्तं भवं मनुं मानुषोत्तरं लोकहितमिह चकारो द्रष्टव्यः, समुच्चयस्य द्योतनीयत्वाद्, विमानं-देवनिवासविशेषमासाद्येति शेषः, देवत्वेन न तु देवीत्वेन तासां सागरोपमस्थितेरसम्भवात् उत्पन्ना-जातास्तेषां देवीनामेकं सागरोपमं स्थितिः, एतानि च विमानानि सप्तमे प्रस्तटेऽवसेयानि ॥ स्थित्यनुसारेण च देवानामुच्छासादयो भवन्तीति तान दर्शयन्नाह ते णमित्यादि, येषां देवानामेकं सागरोपमं स्थितिस्ते देवा णमित्यलङ्कारे अर्द्धमासस्यान्ते इति शेषः आनन्ति प्राणन्ति, एतदेव क्रमेण व्याख्यानयन्नाह-उच्छ्सन्ति निःश्वसन्ति, वाशब्दाः विकल्पार्थाः, तथा तेषामेव वर्षसहस्रस्यान्ते इति शेषः, आहारार्थः-आहारप्रयोजनमाहारपुद्गलानां ग्रहणमाभोगतो भवति, अनाभोगतस्तु प्रतिसमयमेव विग्रहादन्यत्र भवतीति, गाथेह-जैस्स जइ सागरोवमाइं ठिइ तस्स तत्तिएहिं पक्खेहिँ । ऊसासो दे
२
स.
१ यस्य यावन्तिः सागरोपमाणि स्थितिस्तस्य तावद्भिः पक्षैः । उच्छवासो देवानां वर्षसहस्रराहारः ॥१॥
Jain Education
For Personal & Private Use Only
L
uinelibrary.org