SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पदसहस्राणि पदाग्रेण-पदपरिमाणेन, इह च यत्रार्थोपलब्धिस्तत्पदं, मतान्तरेण तु अष्टादशपदसहस्रपरिमाणत्वादाचारस्य एतद्विगुणत्वाच शेषाङ्गानां व्याख्याप्रज्ञप्ति लक्षे अष्टाशीतिः सहस्राणि पदानां भवन्तीति, तथा चतुरशीतिर्नागकुमारावासलक्षाणि-चतुश्चत्वारिंशतो दक्षिणायां चत्वारिंशतश्चोत्तरायां भावादिति, चतुरशीतिर्योनयो-जीवोत्पत्तिस्थानानि ता एव प्रमुखानि-द्वाराणि योनिप्रमुखानि तेषां शतसहस्राणि-लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथं ?-"पुढविदगअगणिमारुय एकेके सत्त जोणिलक्खाओ। वण पत्तेय अणते दस चउदस जोणिलक्खाओ ॥ १॥ विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसु । तिरिएसु होंति चउरो चोदसलक्खा उ मणुएसु॥२॥" त्ति, [ पृथ्वीदकाग्निमरुतामेकैकस्मिन् सप्त योनिलक्षाः । वने प्रत्येकानन्तयोर्दश चतुर्दश योनिलक्षाः ॥१॥ विकलेन्द्रियेषु द्वे द्वे चतस्रः चतस्रश्च नारकसुरयोः। तिर्यक्षु भवन्ति चतस्रः चतुर्दश लक्षास्तु मनुजेषु ॥२॥ इह च जीवोत्पत्तिस्थानानामसंख्येयत्वेऽपि समानवर्णगन्धरसस्पर्शानां तेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्या-3 व्यभिचारो मन्तव्य इति, 'पुवाइयाण'मित्यादि, पूर्वमादिर्येषां तानि पूर्वादिकानि तेषां शीर्षप्रहेलिका पर्यवसाने येषां तानि शीर्षप्रहेलिकापर्यवसानानि तेषां स्वस्थानात्-पूर्वपूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्योत्पत्तिस्थानात् संख्याविशेषलक्षणात् गुणनीयादित्यर्थः 'स्थानान्तराणि' स्थानान्तराण्यपि अनन्तरस्थानान्यव्यवहितसङ्ख्याविशेषा गुणकारनिष्पन्ना येषु तानि खस्थानस्थानान्तराणि क्रमव्यवस्थितसङ्ख्यानविशेषा इत्यर्थः अथवा स्वस्थानानि १६ सम. dain Education For Personal & Private Use Only rebrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy